Enter your Email Address to subscribe to our newsletters

पौड़ी–गढ़वाल–जनपद:, १५ मार्चमासः (हि.स.)। उत्तराखण्ड–राज्यस्य पारम्परिक–लोकपर्व फूलदेई जनपदे उल्लासेन मानितम्। अस्मिन् अवसरे जनपदाधिकारी–निवासे अपि बालकानां ध्वनिभि:, लोकगीतैः तथा पुष्पसुगन्ध्या वातावरणं उत्सवमयम् अभवत्। बालकानां कश्चन समूहः जनपदाधिकारी–निवासं गत्वा परम्परानुसारं गृहस्य द्वारे विविधवर्ण–पुष्पाणि विकीर्य सुख–समृद्धेः शान्तेश्च कामनां कृतवान्।
जनपदाधिकारिणी स्वाति–एस–भदौरिया बालकान् सस्नेहं स्वागतं कृत्वा तेषां प्रोत्साहनार्थं उपहारान् अददात्। सा बालकैः सह संवादं कृत्वा तान् अध्ययनेन सह स्व–संस्कृतेः परम्पराणां च पालनाय प्रेरितवती।अवसाने सा अवदत् यत् फूलदेई–पर्व उत्तराखण्डस्य समृद्ध–लोकसंस्कृतेः प्रतीकं भवति, यत् प्रकृतिप्रेम, सामाजिक–सौहार्दं तथा सुख–समृद्धेः सन्देशं प्रसारयति। जनपदस्य ग्रामेषु नगरकेषु बालकाः गृह–गृहं गत्वा पुष्पाणि विकीर्य लोकगीतानि गायन्तः एतत् पर्व हर्षोल्लासेन अमनयन्।
हिन्दुस्थान समाचार / अंशु गुप्ता