Enter your Email Address to subscribe to our newsletters

लखनऊ, 15 मार्चमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः चैत्रनवरात्रेः पूर्वं प्रदेशवासिभ्यः पत्रं लिखित्वा राज्यस्य सुखसमृद्धये शुभकामनाः प्रेषितवान् तथा नवसंवत्सरस्य (वि.सं. २०८३) अभिनन्दनं कृतवान्।
सः अवदत् यत् नवरात्रिपर्व सर्वेषां जीवने भक्ति, शक्ति, नवचेतना च सञ्चारयतु। “सनातननवसंवत्सरस्य (वि.सं. २०८३) हार्दिकाः शुभाशयाः” इति अपि सः उक्तवान्।
मुख्यमन्त्री योगीआदित्यनाथः अवदत् यत् गतनववर्षेषु उत्तरप्रदेशः संकल्पात् सिद्धिपर्यन्तं गौरवमयीं यात्रां कृतवान्। २०१७ वर्षात् पूर्वं यः कालः आसीत्, तस्य तमः त्यक्त्वा प्रदेशः अधुना “उपद्रवात् उत्सवप्रदेशम्” इति दिशि प्रगतिं कृतवान्। अस्य उत्सवप्रदेशस्य नवनिर्माणे नारीशक्तेः योगदानम् अतुलनीयम् अस्ति।
मुख्यमन्त्री योगी उक्तवान् यत् चैत्रनवरात्रिपर्व केवलं उपासनायाः उत्सवः न, अपि तु नारीशक्तेः वन्दनस्य महोत्सवः अपि अस्ति। यत्र कन्याः समर्थाः भवन्ति, तत्र समाजः प्रदेशश्च अपि सुदृढः भवति। नारीशक्तेः मानः सदा रक्षितः भवेत्, कन्याभ्यः स्वप्नानां विशालं आकाशं लभेत तथा मातृशक्तेः यथोचितः सम्मानः दीयेत।
सः अवदत् यत् नारीशक्त्या कृतं नेतृत्वम् सकारात्मकपरिवर्तनस्य सशक्तं उदाहरणम् अस्ति। विकसितप्रदेशस्य लक्ष्यस्य प्राप्तये सर्वेषु क्षेत्रेषु कन्याभ्यः पर्याप्ताः अवसराः दातव्याः।
अन्ते मुख्यमन्त्री आह्वानं कृतवान् यत् अस्मिन् पावनावसरे सर्वे कन्याभ्यः पुत्रवत् समानान् अवसरान् प्रदातुं संकल्पं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार