मंजीत सिंहः असम विधानसभानिर्वाचनाय विशेषेण पर्यवेक्षकः नियुक्तः
गुवाहाटी, 16 मार्चमासः(हि.स.)। भारत निर्वाचन आयोगेन सेवानिवृत्तः आईएएस अधिकारी मंजीत सिंह असम विधानसभायाः सामान्यनिर्वाचनम् 2026 कृते विशेषपर्यवेक्षकत्वेन नियुक्तः अस्ति। भारत निर्वाचन आयोगस्य पक्षतः अवर सचिवः एम एल मीना इत्यनेन हस्ताक्षरिते आदेशे
असम विस चुनाव


गुवाहाटी, 16 मार्चमासः(हि.स.)। भारत निर्वाचन आयोगेन सेवानिवृत्तः आईएएस अधिकारी मंजीत सिंह असम विधानसभायाः सामान्यनिर्वाचनम् 2026 कृते विशेषपर्यवेक्षकत्वेन नियुक्तः अस्ति।

भारत निर्वाचन आयोगस्य पक्षतः अवर सचिवः एम एल मीना इत्यनेन हस्ताक्षरिते आदेशे उक्तं यत् भारतस्य संविधानस्य अनुच्छेद 324 अन्तर्गतं प्राप्ताधिकारानां प्रयोगेन भारत निर्वाचन आयोगेन असम विधानसभायाः नव्यतया घोषितस्य सामान्यनिर्वाचनस्य 2026 सम्बन्धे मंजीत सिंह विशेषपर्यवेक्षकत्वेन नियुक्तः कृतः।

असम विधानसभायाः सामान्यनिर्वाचनम् 2026 सम्बन्धे मतदानस्य सज्जानां तथा निर्वाचनप्रक्रियायाः संचालनस्य निरीक्षणार्थं मंजीत सिंह समयसमये असम राज्यस्य भ्रमणं करिष्यति तथा आवश्यककार्यवाह्यर्थं आयोगाय स्वसुझावान् दास्यति।

एतदतिरिक्तं मंजीत सिंह असमस्य मुख्यनिर्वाचनाधिकारिणः (सीईओ) समन्वयेन असम राज्यस्य भ्रमणं करिष्यति। अस्य विषये सर्वाणि आवश्यकसामग्र्यः, सुविधाः, प्रोटोकॉलादयः च असमस्य मुख्यनिर्वाचनाधिकारिणः द्वारा उपलभ्यन्ते।-----------------

हिन्दुस्थान समाचार