Enter your Email Address to subscribe to our newsletters

भोपालम्, 16 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य भोपाल जनपदे जलसंरचनानां संरक्षणसंवर्धनयोः उद्देश्येन “जल गङ्गा संवर्धन अभियानम्” १९ मार्चदिनाङ्कात् आरभ्यते। अस्य अभियानस्य जनसहभागितया प्रभावी परिणाममुखं च कार्यान्वयनं क्रियताम् इति निर्देशः कलेक्टरः कौशलेन्द्र विक्रम सिंह सोमवासरे आयोजितायां समयसीमापत्रसमीक्षासभायां जलगङ्गासंवर्धनाभियानेन सम्बद्धान् विभागाधिकारिणः प्रति अदात्।
तेन उक्तं यत् अभियानस्य अन्तर्गतं प्राचीनजलसंरचनानां जीर्णोद्धारः मरम्मतिः च सह रिचार्जपिट् तथा वर्षाजलसंग्रहणव्यवस्था (रेन वाटर हार्वेस्टिंग) इत्यादीनां कार्याणां प्राथमिकतया क्रियान्वयनं भविष्यति। तेन सह जनपदस्य जीवनदायिनीनदीनां हलाली नदी तथा कोलांस नदी इत्यादीनां प्रमुखजलस्रोतसां संरक्षणसंवर्धनयोः विस्तृता कार्ययोजना अपि निर्मातव्या इति निर्देशः दत्तः।
कलेक्टरः उक्तवान् यत् जनपदस्य सर्वेषु नगरीयनिकायेषु ग्रामपञ्चायतासु च जलसंरक्षणसम्बद्धानि कार्याणि क्रियन्ताम्। शासकीयकार्यालयेषु रूफ् वाटर हार्वेस्टिंग प्रणालीस्य निर्माणं, प्राचीनबावडीनां मरम्मतिः पुनः उपयोगे आनयनं तथा पुरातनजलस्रोतसां संरक्षणम् इत्यादयः कार्याः क्रियन्ताम् इति निर्देशः दत्तः। स्वयंसेवीसंस्थाः सामाजिकसंघटनानि सामान्यजनाः च अभियाने संयोज्य व्यापकजनभागीदारी सुनिश्चितीक्रियेत, येन जलसंरक्षणविषये जागरूकता वर्धेत तथा अभियानस्य सकारात्मकाः परिणामाः दृश्येरन्।
कलेक्टरः सर्वान् नगरनिगमानां तथा जिलापञ्चायतस्य मुख्यकार्यपालनाधिकाऱिणः निर्देशितवान् यत् ग्रीष्मऋतौ पेयजलव्यवस्थायाः विशेषं ध्यानं दातव्यम् तथा जलस्य निरन्तरपूर्तिः सुनिश्चितीक्रियेत। ग्रामीणक्षेत्रेषु पेयजलसमस्यायाः सूचना प्राप्ते सति पीएचई विभागस्य जनपदाधिकारिणां च दलं त्वरितं स्थलम् उपगत्य समाधानं करोतु।
कलेक्टरः जनपदे एचपीवी टीकाकरणस्य प्रगतिमपि समीक्षितवान्। अल्पप्रगतौ तेन महिला बालविकासविभागं, स्वास्थ्यविभागं तथा शिक्षाविभागं संयुक्तरूपेण शिविरान् आयोज्य चतुर्दशवर्षपर्यन्तानां सर्वासां बालिकानां टीकाकरणं सुनिश्चितीकर्तुं निर्देशः दत्तः। जिलाशिक्षाधिकाऱिणं अपि निर्देशितवान् यत् सर्वेषां शासकीयाशासकीयविद्यालयानां प्राचार्यैः स्वास्थ्यविभागेन सह संयुक्तसभा आयोज्य टीकाकरणसम्बद्धं जनजागरूकताअभियानं चालयन्तु, येन अभिभावकाः अवगच्छेयुः यत् एचपीवी टीकः कर्कटरोगादिव गंभीररोगेभ्यः संरक्षणे सहायकः अस्ति। तदनन्तरं अभिभावकानां सम्मत्याः अनन्तरं टीकाकरणं क्रियेत।
कलेक्टरः सीएम हेल्पलाइनस्य अपि समीक्षा कृत्वा सर्वेभ्यः विभागेभ्यः शिकायतानां स्थितिविषये सूचना प्राप्तवान्। तेन १०० दिवस तथा ५० दिवसपर्यन्तं लंबितानां शिकायतानां शीघ्रनिराकरणं कृत्वा ग्रेडस्य उन्नयनं कर्तुं निर्देशः दत्तः। “संकल्पसेसमाधान” अभियाने अन्तर्गतं आयोजितेषु क्लस्टरस्तरीयशिविरेषु प्राप्तानां आवेदनानां अपि समयसीमायां निराकरणं सुनिश्चितीक्रियताम् इति उक्तम्। कस्यचित् आवेदकस्य समस्या दीर्घकालं लंबिता न भवेत् तथा सर्वासां शिकायतानां अनिवार्यतया ऐप् मध्ये प्रविष्टिः क्रियेत इति निर्देशः दत्तः।
कलेक्टरः समर्थनमूल्ये गेहूंक्रयणार्थं कृषकाणां पञ्जीकरणविषये अपि जानकारीम् अलभत। पञ्जीकृतकृषकाणां सत्यापनं समये क्रियेत इति अधिकारिणः प्रति निर्देशः दत्तः। सर्वेषु क्रयकेन्द्रेषु बारदानम्, तौलयन्त्रं तथा अन्यावश्यकव्यवस्थाः शीघ्रं पूर्णाः क्रियन्ताम्। गेहूंक्रयणस्य भण्डारणस्य परिवहनस्य च व्यवस्थाविषये अपि आवश्यकाः निर्देशाः दत्ताः।
अस्यां सभायां जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारिणी इला तिवारी, अपरकलेक्टरः अंकुर मेश्राम, एसडीएम तथा विविधविभागानां अधिकारिणः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार