Enter your Email Address to subscribe to our newsletters

- एसीएस राजन् राज्य स्तरीय राष्ट्रिय सेवा योजना सम्मेलनस्य 2026 अकरोत् शुभारंभम्
भोपालम्, 16 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य उच्चशिक्षाविभागस्य अपरमुख्यसचिवः अनुपम राजन अवदत् यत् राष्ट्रियसेवायोजनायाः क्रियाकलापेषु सहभागिता कर्तुं कस्यचित् विद्यार्थिनः कृते महत् सौभाग्यम् अस्ति। एषा योजना विद्यार्थिनं राष्ट्रनिर्माणस्य कार्येषु संयोजयितुं अग्रणीं भूमिकां निर्वहति।
अपरमुख्यसचिवः अनुपम राजन सोमवासरे राज्यस्तरीय राष्ट्रियसेवायोजना सम्मेलन २०२६ इत्यस्य उद्घाटनसमारोहे भाषणं कुर्वन् एतत् उक्तवान्। भारतसरकारस्य युवा कार्यक्रम तथा क्रीडा मन्त्रालयस्य अधीनस्थेन राष्ट्रियसेवायोजना क्षेत्रीयनिदेशालयेन भोपाल (मध्यप्रदेश-छत्तीसगढ) इत्यनेन भोपालनगरे राज्यस्तरीय राष्ट्रियसेवायोजना सम्मेलन २०२६ इत्यस्य आयोजनं क्रियते।
द्विदिवसीयस्य अस्य सम्मेलनस्य सोमवासरे अपरमुख्यसचिवेन अनुपम राजनेन उद्घाटनं कृतम्। अस्मिन् कार्यक्रमे राष्ट्रियसेवायोजनायाः सलाहकारः तथा क्षेत्रीयनिदेशकः डॉ. अशोक कुमार श्रोती, डॉ. राजकुमार वर्मा, समन्वयकः डॉ. शेखर, शासकीय माधव महाविद्यालय ग्वालियरस्य प्राचार्यः डॉ. शिवकुमार शर्मा, सुधाकर कुशवाह (नई दिल्ली), एसडीएम शैलेंद्र सिंह (सतना) तथा राष्ट्रियसेवायोजनायाः स्वयंसेवकाः, कार्यक्रमाधिकारिणः, प्राचार्याः, जिलासंगठकाः, कार्यक्रमसमन्वयकाः च उपस्थिताः आसन्।
अस्मिन् द्विदिवसीये आयोजने राष्ट्रियसेवायोजनासम्बद्धेषु विविधेषु विषयेषु यथा माय भारत पोर्टल, विकसित भारत, राष्ट्रियसेवायोजनायाः क्रियाकलापाः इत्यादिषु विषयेषु तकनीकीसत्राणि आयोजितानि सन्ति।
---------------
हिन्दुस्थान समाचार