Enter your Email Address to subscribe to our newsletters

पटना, 17 मार्चमासः(हि.स.)। बिहारराज्ये पर्यावरणसंरक्षणेन सह ग्रामीणार्थव्यवस्थाया: सुदृढीकरणस्य दिशि एका महत्त्वपूर्णा योजना आरभ्यते। पटना–गया–डोभी राष्ट्रीयराजमार्गः ‘ग्रीन कॉरिडोर’ इति रूपेण विकसितुं योजना निर्मिता अस्ति।
पर्यावरणवनजलवायुपरिवर्तनविभागस्य अस्यां महत्त्वाकांक्षिण्यां योजनायां मार्गस्य उभयोः पार्श्वयोः विशालपरिमाणे फलदारछायादारवृक्षाणां रोपणं क्रियते। अस्याः योजनायाः अन्तर्गतं वित्तीयवर्षे 2026-27 तः 2028-29 पर्यन्तं गया वनप्रमण्डलक्षेत्रे प्रायः 65 किलोमीटरपरिमिते क्षेत्रे 21 सहस्राधिकाः वृक्षाः रोपिताः भविष्यन्ति। अस्य उद्देश्यं केवलं हरितावरणवृद्धिः न, अपि तु कृषकाणां आयवृद्धिः अपि अस्ति।
अस्याः योजनायाः विशेषता एषा यत् एषा जनभागीदारीमॉडलेन कार्यान्विता भविष्यति। स्थानीयजनप्रतिनिधयः यथा मुखियाः, पंचायतसमितिसदस्याः, पार्षदाः, जिलापार्षदाः, विधायकाः तथा जिलाधिकारीणः सहकार्येण एषा योजना कार्यरूपेण स्थापिता भविष्यति। कृषकैः सह समन्वयेन तेषां रैयतीभूमौ अपि वृक्षारोपणं क्रियते, येन ‘कम्युनिटी फार्मिंग’ इति भावनायाः प्रोत्साहनं भविष्यति तथा तेषां कृते अतिरिक्तआयस्य स्रोतः अपि उपलब्धः भविष्यति।
विभागीयमन्त्री डॉ. प्रमोद कुमार महोदयः मङ्गलवासरे अस्याः योजनायाः समीक्षा कृत्वा अधिकाऱ्यः विस्तृतकार्ययोजना मार्गदर्शिकां च निर्मातुं निर्देशितवन्तः। तेन वृक्षाणां गुणवत्तायाः, उचितप्रजातिचयनस्य वैज्ञानिकरीत्या रोपणस्य च विषये विशेषं ध्यानं दातव्यं इति उक्तम्। कृषकाणां प्रशिक्षणे अपि बलं दत्तम्, यतः ते वृक्षपरिपालनं तथा तेषां आर्थिकलाभं सम्यक् अवगच्छेयुः।
अस्याः योजनायाः अन्तर्गतं कृषकाणां कृते प्रोत्साहनराशिः अपि प्रदास्यते। अपि च अधिकाऱ्यः नियमितरूपेण स्थलीयनिरीक्षणं कुर्वन्तु तथा प्रगतिनिरीक्षणं अपि कुर्वन्तु इति निर्देशाः दत्ताः। हरियाली मिशन इत्यस्य निदेशकः अस्याः योजनायाः समन्वयार्थं नोडल अधिकारी इति नियुक्तः अस्ति।
अस्मिन् क्रमे एव 19 मार्चे एकः संवादात्मकसत्रम् आयोज्यते, यस्मिन् हरितावरणवृद्धिक्षेत्रे कार्यरताः स्वयंसेवीसंस्थाः सह विचारविमर्शः भविष्यति, येन योजना अधिकप्रभावी भवेत्।
अस्याः ग्रीन कॉरिडोर योजनायाः अन्तर्गतं प्रत्येकं 5 किलोमीटरपरिमाणे समानप्रकारस्य फलदारवृक्षाणां रोपणं क्रियते, येन एकरूपा हरितपट्टी निर्मीयेत। अत्र आम्र, अमरूद, जामुन, लीची, कटहल, आंवला, बेलं, नींबूः, सहजन इत्यादीनि फलवृक्षाणि, तथा नीम, वट, अश्वत्थ, पाकड़ इत्यादयः अपि समाविष्टाः सन्ति।
विभागीयाधिकारिणः वदन्ति यत् अस्याः प्रयत्नस्य फलस्वरूपं न केवलं मार्गपार्श्वस्य वातावरणं हरितं मनोहरं च भविष्यति, अपि तु फलोत्पादनद्वारा स्थानीयापणस्य अपि संवर्धनं भविष्यति तथा ग्रामीणार्थव्यवस्था नवबलं प्राप्स्यति।-----------
हिन्दुस्थान समाचार