Enter your Email Address to subscribe to our newsletters

मुरादाबादनगरम्, १७ मार्चमासः (हि.स.)। उत्तर-प्रदेशस्य मुरादाबाद-जनपदे स्वदेशी-जागरण-मञ्चेन मङ्गलवासरे दिल्ली-रोड-स्थिते ‘इण्टरनेशनल-बैन्क्वेट-हाल’ इत्यत्र एकां सभाम् आयोजितवती। अस्यां सभायां निधि-संग्रह-अभियानस्य कार्य-योजनायाः विषये चर्चा कृता। राष्ट्रिय-सह-संयोजकः डॉ.राजीव-कुमारः अवदत् यत् अर्थः कस्यापि संगठनस्य कृते रक्तवत् भवति; तं विना किमपि कार्यं सम्भवम् न भवति। अतः वार्षिके निधि-संग्रह-अभियाने सर्वे कार्यकर्तारः पूर्ण-निष्ठया प्वृत्ताः भवन्तु।
सह-क्षेत्र-संयोजकः कपिल-नारंगः निधि-संग्रह-अभियानस्य कार्य-योजनां रणनीतिं च विषये विचार-विमर्शं कृतवान्। क्षेत्र-समन्वयकः ‘स्वावलम्बी-भारत-अभियानस्य’ कुलदीप-सिंहः जनपद-रोजगार-सृजन-केन्द्रस्य स्थापना-तथा-सञ्चालन-सम्बद्धां योजनां प्रस्तुतवान्। सः उक्तवान् यत् शीघ्रमेव रोजगार-सृजन-केन्द्रस्य स्थापना कृत्वा यूनां स्वरोजगार-प्राप्तौ सहयोगः प्रदास्यते।
जनपद-संयोजकः नीरज-सोलंकी, जनपद-महिला-प्रमुखा पूनम-चौहानः तथा महानगर-महिला-प्रमुखा नीलम-जैनः २१ मार्चमासे नव-संवत्सरावसरे आयोजितस्य कार्यक्रमस्य रूपरेखां अवदन्। महानगर-संयोजकः गुरप्रीत-सिंह-दुआ महानगरे संगठन-विस्तारस्य महत्त्वं निर्दिष्टवान्।
अन्ते, सीए हिमांशु-मेहरा (जनपद-समन्वयकः), अधिवक्ता नीरज-सोलंकी (जनपद-संयोजकः) तथा गुरप्रीत-सिंह-दुआ (महानगर-संयोजकः) इत्येभ्यः नूतन-दायित्व-प्राप्त्यर्थं अभिनन्दनं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता