'फार्मर रजिस्ट्री' कार्यं ग्रहीतो वेगः, उत्तर प्रदेशे  1.70 कोटिमितं पंजीकरणं पूर्णम्
लखनऊ, 17 मार्चमासः (हि.स.)।उत्तर प्रदेश-राज्यस्य सर्वकारेण कृषकाणां डिजिटल-परिचयप्रदानाय तथा कृषि-योजनानां लाभं पारदर्शितया प्रापयितुं प्रवर्तिता ‘फार्मर-रजिस्ट्री’ नामिका योजना नूतन-कीर्तिमान् स्थापयति। १७ मार्च २०२६ तिथेः सायं षड्वादने यावत् अद्य
फाइल फोटो किसान


लखनऊ, 17 मार्चमासः (हि.स.)।उत्तर प्रदेश-राज्यस्य सर्वकारेण कृषकाणां डिजिटल-परिचयप्रदानाय तथा कृषि-योजनानां लाभं पारदर्शितया प्रापयितुं प्रवर्तिता ‘फार्मर-रजिस्ट्री’ नामिका योजना नूतन-कीर्तिमान् स्थापयति। १७ मार्च २०२६ तिथेः सायं षड्वादने यावत् अद्यतन-आङ्कानुसारं राज्ये समग्रतः १,६९,९५,४१८ पीएम किसान योजना-लाभार्थिनां पञ्जीकरणं सफलतया सम्पन्नम्। एतेन सह राज्येन निर्धारित-लक्ष्यस्य अपेक्षया ७४.४६% पूर्णतादरः प्राप्तः।

जिलानुसारं प्रगत्याः क्रमाङ्कनम् अपि प्रकाशितम्, यस्मिन् रामपुर १००.०३% पूर्णतादरेण राज्ये प्रथमस्थानं प्राप्तवान्। ततः अनन्तरं गाजियाबाद (९४.०६%) द्वितीयस्थाने, अंबेडकर नगर (९०.४६%) तृतीयस्थाने स्थिताः। एटा (८८.८४%) चतुर्थस्थाने तथा बाराबंकी (८७.४९%) पञ्चमस्थाने स्व-प्रगतिं दर्शयतः।

१७ मार्चदिने विशेष-अभियानस्य अन्तर्गतं राज्यव्यापिनः कुलतः ३०,६५४ नवीनाः फार्मर-आईडी निर्मिताः। तत्र विभिन्न-माध्यमानां योगदानम्— सीएससी माध्यमेन १२,४९७, स्वयंपञ्जीकरणेन ४,८३४, सहायकेन १०,९२९, शिविरैः २,३९४ इति।

कृषिविभागस्य अनुसारं फार्मर-रजिस्ट्री-पोर्टले अद्यपर्यन्तं १,९९,४२,७९८ फार्मर-आईडी निर्मिताः, यत्र पीएम-किसान-लाभार्थिनः अपि तथा २९,४७,३८० अपर-लाभार्थिनः कृषकाः समाविष्टाः। वर्तमानकाले राज्यस्य विभिन्नेषु जनपदेषु ३,२१,८८२ कृषकाणां दत्तांशः अनुमोदनार्थं लंबितः अस्ति।

जिलाधिकारीभ्यः तथा कृषिविभागस्य अधिकारिभ्यः निर्देशाः दत्ताः यत् सत्यापन-प्रक्रिया शीघ्रं क्रियताम्, येन शेषाः कृषकाः अपि शीघ्रं फार्मर-रजिस्ट्री-अन्तर्गताः स्युः। अस्य डिजिटल-दत्तांश-भाण्डारस्य उपयोगेन भविष्ये खाद-बीज-अनुदान-वितरण-प्रक्रिया अधिकं सुगमा पारदर्शिनी च भविष्यति।

हिन्दुस्थान समाचार