Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 17 मार्चमासः (हि.स.)।
चैत्रशुक्लप्रतिप्रदायाः आरम्भे भवतः नववर्षस्य अवसरस्य उपलक्ष्ये गोरखपुरे नौकाविहारस्थले “भारतीयनूतनवर्षाभिनन्दनसमारोहः” आयोज्यते।
अयं उत्सवः सृष्टेः उदयस्य प्रकृतेः नवपल्लवनस्य राष्ट्रचेतनायाः जागरणस्य सांस्कृतिकपुनरुत्थानस्य च प्रतीकः अस्ति।
अस्य समारोहस्य मुख्यातिथिः तेलङ्गानाराज्यस्य राज्यपालः शिवप्रतापशुक्लः भविष्यति। कार्यक्रमस्य अध्यक्षतां गोरखपुरमेडिकलकॉलेजस्य पूर्वप्राचार्यः डॉ के पी कुशवाहा करिष्यति। तथा च राष्ट्रियस्वयंसेवकसंघस्य गोरक्षप्रान्ताध्यक्षस्य प्रान्तप्रचारकः रमेशः विशिष्टातिथिरूपेण उपस्थितः भविष्यति।
अयं कार्यक्रमः १८ मार्च २०२६, बुधवासरे, सायं ६ १५ वादने, नौकाविहारतारामण्डले आयोज्यते।
आयोजकसमित्या सर्वेभ्यः नागरिकेभ्यः आग्रहः कृतः यत् ते सर्वे उपस्थित्य नववर्षस्य स्वागतं कुर्वन्तु।
हिन्दुस्थान समाचार