Enter your Email Address to subscribe to our newsletters

रांची, 17 मार्चमासः (हि.स.)। सहजयोगपरिवारस्य कृते एतत् अत्यन्तं गौरवस्य हर्षस्य च विषयः अस्ति यत् अमेरिकादेशस्य न्यूमिलफोर्डनगरप्रशासनम् पूज्यायाः श्रीमाताजी निर्मलादेव्याः सम्मानार्थं ऐतिहासिकीं घोषणां कृतवान्। मेयरकार्यालयेन ९ मार्चदिने प्रकाशितायाः आधिकारिकघोषणायाः अनुसारम् अधुना प्रति वर्षं २१ मार्चदिनं ‘निर्मलादेवीदिवसः’ इति रूपेण आचरिष्यते।
अस्य अन्तरराष्ट्रीयसम्मानस्य उपलक्ष्ये सहजयोगकेन्द्रम् रांची अपि २१ मार्चदिने श्रीमातुः जयंतीं अत्यन्तश्रद्धया उत्साहेन च आचरिष्यति। अयं कार्यक्रमः रांचीस्थे मनातूरिङ्गरोडप्रदेशे स्थिते निर्मलधाम्नि आयोज्यते, यत्र बहवः साधकाः श्रद्धालवः च सहभागी भविष्यन्ति।
कार्यक्रमस्य अवसरि ध्यानम्, भजनानि, सामूहिकप्रार्थना तथा श्रीमातुः जीवनस्य तस्याः आध्यात्मिकसन्देशानां च विषये विशेषप्रस्तुतयः प्रदास्यन्ते। अस्य विषये सहजयोगकेन्द्ररांचीनगरात् मङ्गलवासरे प्रेसविज्ञप्त्या सूचना प्रदत्ता। केन्द्रस्य अनुसारम् एषा घोषणा केवलं औपचारिकसम्मानः न, अपितु तस्याः महान् आध्यात्मिकपरम्परायाः वैश्विकस्वीकृतिः अस्ति, यां श्रीमाताजी सम्पूर्णमानवतायै प्रदत्तवती।
उल्लेखनीयम् यत् श्रीमाताजी निर्मलादेव्याः जन्म २१ मार्च १९२३ तमे वर्षे भारते अभवत्। तस्याः सम्पूर्णं जीवनं सत्यकरुणाशान्त्यादि आध्यात्मिकजागरणसन्देशेन परिपूर्णम् आसीत्। तया विश्वाय सहजयोगनाम दिव्यसाधना प्रदत्ता, यस्य माध्यमेन लक्षशः जनाः आत्मसाक्षात्कारम् अनुभूय स्वजीवने शान्तिं संतुलनम् आन्तरिकानन्दं च प्राप्तवन्तः।
भारतस्य स्वातन्त्र्यआन्दोलने तया महात्मगान्धिना सह कार्यं कृतम् तथा तेषां आदर्शेभ्यः प्रेरणा गृहीता। अनन्तरं तया सहजयोगस्य स्थापना कृत्वा विश्वस्य अनेकेषु देशेषु आध्यात्मिकचेतनायाः प्रसारः कृतः।रांची नगरे आयोज्यमानः अयं कार्यक्रमः न केवलं श्रद्धालूनां कृते विशेषमहत्त्वं धारयति, अपितु समाजे सकारात्मकऊर्जा, शान्ति तथा आध्यात्मिकजागरूकतायाः प्रसारस्य अपि महत्त्वपूर्णं साधनं भविष्यति।----------------
हिन्दुस्थान समाचार