Enter your Email Address to subscribe to our newsletters

धर्मशालानगरम्, १७ मार्चमासः (हि.स.)। हिमाचल-प्रदेश-विश्वविद्यालयस्य क्षेत्रीय-केन्द्रे मोहाली-स्थले धर्मशालायां ‘आपदा-प्रबन्धने समसामयिक-विषयाः तथा समस्याः’ इति विषयकः द्विदिवसीयः अन्ताराष्ट्रिय-सङ्गोष्ठी-कार्यक्रमः सम्पन्नः।
अन्तिम-दिने उद्घाटन-सत्रे हिमाचल-प्रदेश-विश्वविद्यालयस्य शिमला-स्थितस्य अध्ययन-अधिष्ठाता प्रो.बाल-कृष्ण-शिवरामः मुख्यातिथिरूपेण उपस्थितः आसीत्, मुख्य-वक्तारूपेण च प्रो.नैनजीत-सिंह-नेगी (निदेशकः, ‘आपदा-प्रबन्धन-तथा-जोखिम-न्यूनीकरण-हिमालयी-शोध-केन्द्रम्’) सहभागी आसीत्। विशिष्टातिथिरूपेण तिब्बत-समुदायात् डॉ.लोबसंग-येंग्सो (वरिष्ठ-वैज्ञानिकः) अपि उपस्थितः आसीत्। क्षेत्रीय-केन्द्रस्य निदेशकः प्रो.कुलदीप-अत्री मुख्यातिथिना सह सर्वान् अतिथीन् स्वागतवान्।मुख्य-वक्ता प्रो.नैनजीत-सिंह-नेगी गत-वर्षेषु हिमाचल-प्रदेशस्य विभिन्न-क्षेत्रेषु घटितानां प्राकृतिक-आपदानां विषये महत्त्वपूर्णान् बिन्दून् अवदत्। केन्द्र-निदेशकः विश्वविद्यालये स्थापितस्य शोध-केंद्रस्य माध्यमेन प्रस्तावित-शोध-योजनानां विषये प्रकाशं कृत्वा तासां समाधानाय सामाजिक-सहभागितां महत्त्वपूर्णाम् उक्तवान्।
विशिष्टातिथिः डॉ.लोबसंग-येंग्सो तिब्बत-प्रदेशे घटितानां आपदां कारणानि डिजिटल-प्रस्तुतिकरणेन प्रदर्शितवान्।सङ्गोष्ठ्यां वक्तारः अवदन् यत् अद्यतन-काले विशेषतः पर्वतीय-प्रदेशेषु विकास-कार्याणि प्रवर्धन्ते, किन्तु तेषां कृते मार्ग-निर्माणं, सुरङ्ग-निर्माणं तथा अन्य-निर्माण-कार्याणि तीव्रतया क्रियन्ते, येन पर्वतानां अत्यधिक-कटनम् आपदां जनयति। तैः विभिन्न-शासकीय-अशासकीय-संस्थासु समन्वय-अभावः अपि प्रमुख-समस्या इति निर्दिष्टा।
ते अवदन् यत् हिमाचल-प्रदेशः पर्वतीयं ग्रामीणं च क्षेत्रम् अस्ति, यत्र अद्यापि मार्ग-सुविधायाः अभावः दृश्यते। अनेन केन्द्रे अग्रिम-सत्रेभ्यः नूतन-पाठ्यक्रमाणां आरम्भः अपि सूचितः।
मुख्यातिथिना सर्वेभ्यः प्रतिभागिभ्यः, शोधार्थिभ्यः तथा विद्यार्थिभ्यः सहभागिता-प्रमाणपत्राणि प्रदत्तानि। अस्मिन् अवसरे अतिथयः, प्रतिभागिनः, शोधार्थिनः इत्यादिभिः सह प्रायः १६० विद्यार्थिनः सहभागिन: अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता