राज्य-सर्वकारस्य प्राथमिकता गुणवत्तापूर्ण-शिक्षा-प्रदानम् अस्ति- मन्त्री परमारः
भोपालनगरम्, १७ मार्चमासः (हि.स.)। मध्यप्रदेशस्य उच्च–तांत्रिक–शिक्षा–मन्त्री इन्दर–सिंह–परमारः मङ्गलवासरे भोपाल-नगरस्य मन्त्रालये स्थिते प्रतिकक्षे उच्च-शिक्षा-विभागस्य सभां कृत्वा विविध-विभागीय-विषयाणां अद्यतन-प्रगतेः समीक्षां कृतवान्। अस्मिन् अवस
मंत्री परमार ने विभागीय समीक्षा कर दिए आवश्यक निर्देश


भोपालनगरम्, १७ मार्चमासः (हि.स.)। मध्यप्रदेशस्य उच्च–तांत्रिक–शिक्षा–मन्त्री इन्दर–सिंह–परमारः मङ्गलवासरे भोपाल-नगरस्य मन्त्रालये स्थिते प्रतिकक्षे उच्च-शिक्षा-विभागस्य सभां कृत्वा विविध-विभागीय-विषयाणां अद्यतन-प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे तेन नवीन-संकाय-स्थापनायाः, संकाय-उन्नयनस्य तथा विधि-महाविद्यालय-सम्बद्धानां विषयाणां विषये विस्तृत-चर्चां कृत्वा आवश्यक-निर्देशाः दत्ताः।

मन्त्री परमारः नवीन-संकायानां तथा स्नातकोत्तर-कक्षाणां प्रारम्भ-विषये समीक्षा कृत्वा दिशानिर्देशान् अददात्। तेन प्रदेशे सञ्चालितानां शासकीय-विधि-महाविद्यालयानां प्रगतेः अपि समीक्षा कृता तथा निर्देशितम् यत् सर्वमानक-पूर्त्या सह बीसीआई (बार-काउन्सिल-ऑफ-इण्डिया) इत्यस्मात् मान्यता तथा विश्वविद्यालयेभ्यः सम्बद्धता अग्रिम-सत्रस्य प्रवेशारम्भात् पूर्वमेव सुनिश्चितीकरणीयम्। अस्य कृते विश्वविद्यालयैः सह उच्च-स्तरीय-समन्वयः स्थाप्यः इति अपि उक्तम्।

तथा च मन्त्री परमारः अवदत् यत् जन-प्रतिनिधिभ्यः प्राप्तानां प्रस्तावानां समयसीमायां परीक्षणं कृत्वा नियमानुसारं कार्यवाही क्रियते तथा प्रगतेः सूचना अपि अनिवार्यतया प्रदीयताम्। महाविद्यालयेषु छात्र-संख्यानुसारं स्वीकृत-शैक्षणिक-पदानां युक्तियुक्तकरणं कृत्वा प्रस्तावाः वित्त-विभागाय प्रेषणीयाः, येन शिक्षायाः गुणवत्तायां वृद्धिः भवेत्।

अन्ते तेन उक्तम् - “गुणवत्तापूर्ण-शिक्षा-प्रदानं राज्य-सर्वकारस्य प्रमुख-प्राथमिकता अस्ति।” अस्यां सभायाम् अपर-मुख्य-सचिवः उच्च-शिक्षा अनुपम-राजनेन सज अन्ये अपि विभागीय-अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता