Enter your Email Address to subscribe to our newsletters

शिमला, 17 मार्चमासः (हि.स.)।
हिमाचलप्रदेशे सत्तारूढा कांग्रेससर्वकारस्य चतुर्थवित्तीयप्रस्तावनात् पूर्वमेव राजनैतिकवाक्ययुद्धं तीव्रं जातम्। भारतीयजनतापक्षप्रदेशाध्यक्षः डॉ राजीवबिन्दलः कांग्रेससरकारं लक्ष्यीकृत्य उक्तवान् यत् सुखविन्दरसिंहसुक्खूनां नेतृत्वे वर्तमानसरकारः गतत्रिषु वर्षेषु केवलं घोषणासु एव सीमिता अस्ति तथा च भूमौ विकासः न दृश्यते।
मङ्गलवासरे डॉ बिन्दलः उक्तवान् यत् कांग्रेससर्वकारः अधुना स्वस्य चतुर्थं बजटं प्रस्तुतुं गच्छति किन्तु तस्मात् पूर्वं एषः प्रश्नः उदेति यत् पूर्वत्रिषु बजटेषु कृतानां घोषणानां किं फलम् अभवत्। तस्य मतानुसारं प्रदेशस्य जनाः अधुना अस्य उत्तरं अपेक्षन्ते।
सः आरोपं कृतवान् यत् प्रत्येकबजटे सरकारेण विशालवचनानि दत्तानि किन्तु तेषां कार्यान्वयने असफलता जाता। तस्य कथनेन अद्य प्रदेशे विविधेषु वर्गेषु असन्तोषः दृश्यते। निवृत्तकर्मचारिणः मार्गेषु आगच्छन्ति, बेरोजगारयुवानः आन्दोलनं कुर्वन्ति, तथा च महिलाः कृषकाः बागवानाः च स्वयम् प्रतारिताः इव अनुभवन्ति।
डॉ बिन्दलः 2022 वर्षस्य विधानसभा निर्वाचनसमये कृतस्य कांग्रेसघोषणापत्रस्य अपि उल्लेखं कृतवान्। सः उक्तवान् यत् तदा कृतानि वचनानि मन्त्रिमण्डले अधिकृतदस्तावेजरूपेण अनुमोदितानि आसन् किन्तु त्रयः वर्षाः अतीतानि सन्ति तथापि तेषां वचनानां कश्चन दृढःप्रभावः न दृश्यते।
सः उक्तवान् यत् कांग्रेसप्रथममन्त्रिमण्डलबैठके एकलक्षसरकारीनियुक्तीनां दानं तथा प्रथमवर्षे पञ्चलक्षरोजगारसृजनस्य प्रतिज्ञा कृतवती आसीत् किन्तु एते वचनद्वयं अद्यापि न पूर्णम्। एवं च अष्टाविंशलक्षमहिलाभ्यः प्रति मासं 1500 रुप्यकाणि दातुं यत् आश्वासनं दत्तं तत् अपि न कार्यान्वितम्।
भाजपानेता उक्तवान् यत् कृषकाणां बागवानानां युवानां च सम्बन्धितानि अनेकानि महत्वपूर्णानि वचनानि अद्यापि अपूर्णानि सन्ति। सः प्रश्नं कृतवान् यत् बजटे घोषितानां योजनानां कार्यान्वयनं किमर्थं न अभवत् तथा च अस्य उत्तरदायित्वं कस्य अस्ति।
आर्थिकविषयेषु अपि सः उक्तवान् यत् राज्यसरकारेण गतत्रिषु वर्षेषु प्रायः 45000 कोटिरुप्यकाणां ऋणं गृहीतम् किन्तु सामान्यजनानां कश्चित् प्रत्यक्षलाभः न अभवत्। सः अपृच्छत् यत् एतत् धनं कुत्र व्ययितम् तथा च कस्य लाभाय उपयुज्यते।
सः अपि आरोपितवान् यत् एकस्मिन् पक्षे सरकार ऋणं गृह्णाति अपरस्मिन् पक्षे सामान्यजनानां आर्थिकभारः वर्ध्यते। तस्य अनुसारं डीजलपर्यन्ते वैट् वर्धितः, स्टाम्पशुल्कं तथा पञ्जीकरणशुल्कं वर्धितम्, एचआरटीसी बसभाडं वर्धितम्, विद्युत् जलयोः मूल्यम् अपि वर्धितम् तथा च सिमेन्टादीनि आवश्यकवस्तूनि अपि महत्तरमूल्येन विक्रीयन्ते।
---------------
हिन्दुस्थान समाचार