स्थायीसमितेः अध्यक्षः सत्या शर्मणश्चांदनीचतुष्पथि क्षेत्रे सहसा निरीक्षणम्
नव दिल्ली, 17 मार्चमासः (हि.स.)। दिल्ली नगर निगमस्य स्थायीसमितेः अध्यक्षा सत्या शर्मा महोदया मङ्गलवासरे सदर पहाड़गंज क्षेत्रस्य चांदनी चौक प्रदेशे स्थानीयपार्षदेन सुमनकुमारगुप्तेन, क्षेत्रीयउपायुक्तया कनिका तथा निगमस्य वरिष्ठाधिकारिभिः सह संयुक्त
स्थायी समिति अध्यक्ष सत्या शर्मा निरीक्षण करते हुए।


नव दिल्ली, 17 मार्चमासः (हि.स.)।

दिल्ली नगर निगमस्य स्थायीसमितेः अध्यक्षा सत्या शर्मा महोदया मङ्गलवासरे सदर पहाड़गंज क्षेत्रस्य चांदनी चौक प्रदेशे स्थानीयपार्षदेन सुमनकुमारगुप्तेन, क्षेत्रीयउपायुक्तया कनिका तथा निगमस्य वरिष्ठाधिकारिभिः सह संयुक्तरूपेण आकस्मिकनिरीक्षणं कृतवती।

निरीक्षणस्य समये शर्मामहोदया दंगल मैदान पार्किंग तथा पुरानी दिल्ली रेलस्थानकस्य सम्मुखे स्थितां क्लब पार्किंग अपि अवलोकितवती। तेन निरीक्षणेन ज्ञातं यत् एते पार्किंगस्थलानि निर्धारितउद्देश्यस्य विपरीतं परिवाहकानां द्वारा अवैधरूपेण मालस्य आरोपणअवरोपणकार्याय उपयुज्यन्ते।

तदतिरिक्तं क्लब पार्किंग क्षेत्रे अवैधझुग्गीनिर्माणं तथा मार्गपार्श्वे अतिक्रमणं कृत्वा अवैधरूपेण मद्यविक्रयः अपि दृष्टः। एतत् गम्भीरअनियमितता इति मन्यमाना स्थायीसमितेः अध्यक्षा तत्रैव त्वरितकार्यार्थं निर्देशान् दत्तवती।

स्थायीसमितेः अध्यक्षा क्षेत्रीयउपायुक्तां निर्देशितवती यत् पुरानी दिल्ली रेलस्थानकस्य समीपे सर्वे अतिक्रमणाः तत्क्षणमेव अपाक्रियन्ताम्। तथा च स्थानीयथानाध्यक्षः लाहौरी गेट आहूय मार्गपार्श्वे अवैधमद्यविक्रेतृभ्यः विरुद्धं कठोरकार्यवाही सुनिश्चितुं निर्देशः दत्तः।

समीपस्थेषु सार्वजनिकशौचालयेषु निरीक्षणं कृत्वा सत्या शर्मा महोदया सम्बन्धिताधिकारिणः निर्देशितवती यत् शौचालयानां नियमितस्वच्छता, संरक्षणं तथा शुद्धता सुनिश्चितं क्रियताम्।

सा अतिरिक्तउपायुक्तं आरपी सेल इत्यस्य अपि आदेशितवती यत् क्लब पार्किंग तथा दंगल मैदान पार्किंग इत्ययोः निविदाः तत्क्षणात् निरस्ताः क्रियन्ताम् तथा सम्बन्धितसंस्थाभ्यः उच्चदण्डः आरोप्यताम्।

एमसीडी इत्यस्य केचन प्राचीनभवनाः जीर्णावस्थायां दृष्टाः सन्ति इति ज्ञात्वा सत्या शर्मा महोदया आदेशितवती यत् तेषां विस्तृतनिरीक्षणं कृत्वा आवश्यककार्यवाही क्रियताम् तथा निगमभूमेः यथोचितोपयोगस्य राजस्ववृद्धेः च सम्भावनाः अपि मूल्याङ्क्यन्ताम्।

स्थायीसमितेः अध्यक्षा उक्तवती यत् सा दिल्ली नगरस्य विविधेषु क्षेत्रेषु नियमितरूपेण निरीक्षणं करोति, येन भूमिस्थितेः वास्तविकावस्थायाः मूल्यांकनं कर्तुं शक्यते। एतादृशैः निरीक्षणैः समस्याः चिन्हीकृत्य तासां शीघ्रसमाधानाय दृढपदानि क्रियन्ते, येन नागरिकेभ्यः उत्तमाः प्रभाविन्यः च नागरसेवाः प्रदातुं शक्यन्ते।

हिन्दुस्थान समाचार