युवदेशस्य भविष्यस्य निर्माता : सूदः
नव दिल्ली, 17 मार्चमासः (हि.स.)। दिल्लीनगरस्य शिक्षामन्त्री आशीष सूद महोदयः डॉन बॉस्को इन्स्टीट्यूट ऑफ टेक्नोलॉजी संस्थायां आयोजिते ‘विकसित भारत युवा कनेक्ट कार्यक्रमे’ सहभागित्वा युवान् देशस्य भविष्यनिर्मातारः इति अभिहितवान्। तेन यूनो राष्ट्रनिर्
डॉन बॉस्को इंस्टीट्यूट ऑफ टेक्नोलॉजी दिल्ली में आयोजित ‘विकसित भारत युवा कनेक्ट कार्यक्रम’ संबोधित करते दिल्ली के शिक्षा मंत्री आशीष सूद


नव दिल्ली, 17 मार्चमासः (हि.स.)।

दिल्लीनगरस्य शिक्षामन्त्री आशीष सूद महोदयः डॉन बॉस्को इन्स्टीट्यूट ऑफ टेक्नोलॉजी संस्थायां आयोजिते ‘विकसित भारत युवा कनेक्ट कार्यक्रमे’ सहभागित्वा युवान् देशस्य भविष्यनिर्मातारः इति अभिहितवान्। तेन यूनो राष्ट्रनिर्माणे सक्रियभूमिकां वहितुं प्रेरिताः।

सूद महोदयः उक्तवान् यत् एषः कश्चन सामान्यः औपचारिककार्यक्रमः न, अपितु देशस्य भविष्यस्य आकारदायिनी ऊर्जा केन्द्रम् अस्ति, यतः एकस्याः नूतनक्रान्तेः सूत्रपातः भविष्यति। सः उपस्थितान् छात्रान् आह्वयन् उक्तवान् यत् ते केवलं अस्य संस्थायाः छात्राः न, अपि तु विकसितभारतस्य वास्तुकाराः शिल्पकाराश्च सन्ति, ये वर्ष 2047 पर्यन्तं भारतं विकसितराष्ट्ररूपेण स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

सूद महोदयः ‘वन्दे मातरम्’ इत्यस्य 150 वर्षाणां ऐतिहासिकपरम्परां उल्लेखयन् उक्तवान् यत् एतत् केवलं गीतं न, अपितु राष्ट्रजागरणस्य मन्त्रः अस्ति, येन स्वातन्त्र्यआन्दोलने नूतना चेतना प्रसृता। 150 वर्षपूर्वं आङ्ग्लशासने यदा देशस्य स्वातन्त्र्यार्थं समर्पिताः जनाः एतत् गीतं गायन्तः शहीदाः अभवन्, तादृशः एव उत्साहः अद्यतनयुवभिः विकसितभारत 2047 निर्माणार्थं प्रदर्शनीयः।

शिक्षामन्त्री युवान् प्रेरयन् उक्तवान् यत् स्वातन्त्र्यसंग्रामे युवानः अग्रणी भूमिकां वहन्तः आसन्, अधुना पुनः इतिहासः तान् आह्वयति। अस्मिन् काले लक्ष्यं स्वातन्त्र्यप्राप्तिः न, अपि तु आत्मनिर्भरस्य विकसितभारतस्य निर्माणम् अस्ति। ‘विकसित भारत युवा कनेक्ट कार्यक्रमः’ अस्यैव उद्देशाय युवान् राष्ट्रियदृष्ट्या संयोजयितुं, तान् सशक्तीकर्तुं, देशस्य विकासयात्रायां सहभागित्वं दातुं च मंचं प्रददाति।

सूद महोदयः ‘माई भारत’ पहलस्य अपि उल्लेखं कृत्वा उक्तवान् यत् एषा योजना, या केन्द्रीयमन्त्री मनसुख माण्डविया महोदयस्य मार्गदर्शने संचालिता, युवेषु स्वयंसेवाभावं राष्ट्रनिर्माणभावं च प्रोत्साहयति। ‘माई भारत बजट क्वेस्ट 2026’ इति कार्यक्रमे दिल्लीनगरस्य प्रायः 45000 छात्राः सहभागित्वा नूतनं कीर्तिमानं स्थापितवन्तः। एतत् अस्य प्रमाणं यत् दिल्लीयुवा केवलं रोजगारान्वेषी न, अपि तु देशस्य आर्थिकदिशां बोधयितुं तस्मिन् सहभागित्वं कर्तुं च उत्तरदायी नागरिकः अस्ति।

तेन उक्तं यत् वित्तीयप् केवलं संख्यानां प्रपत्रं न, अपि तु नागरिकानां आकाङ्क्षाणां प्रतिबिम्बं भवितव्यम्। अस्यैव उद्देशाय दिल्लीसर्वकारः यूनः आमन्त्रयति यत् ते सरकारेण सह वित्तीयनिर्माणे स्वकीयं बहुमूल्यं योगदानं दत्वा स्वसुझावान् प्रदद्यु:, येन आगामिनि दिल्लीबजटे तेषां अपेक्षाः विचाराश्च समावेशिताः स्युः।

-----------

हिन्दुस्थान समाचार