Enter your Email Address to subscribe to our newsletters

-चैत्र नवरात्रस्य प्रथम दिने सनातनी पंचांगस्य विमोचनम्
वाराणसी, 17 मार्चमासः (हि.स.)।
गौ-प्रतिष्ठा-धर्मयुद्ध-शङ्खनाद-कार्यक्रमे सहभागं कृत्वा ज्योतिष्पीठाधीश्वरः शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्द सरस्वती छत्तीसगढ-प्रदेशात् प्रयागराज-मार्गेण गच्छन् १८ मार्च बुधवासरे सायंकाले वाराणसी-नगरं आगमिष्यति। तस्य काशी-आगमने सनातन-धर्मावलम्बिनः जनाः तथा गो-भक्ताः पुष्प-वर्षया जयघोषैः च तस्य अभिनन्दनं करिष्यन्ति।
शङ्कराचार्यः काशी-प्रवास-कालस्य अन्तर्गतं चैत्र-नवरात्रोत्सवे नवदिनपर्यन्तं विविधेषु धार्मिक-अनुष्ठानेषु सहभागं करिष्यति। तस्य सान्निध्ये आध्यात्मिक-अनुष्ठानानि तथा विशेष-पूजनानि सम्पन्नानि भविष्यन्ति। एतां सूचनां केदारघाट-स्थितात् श्री-विद्यामठात् सम्बद्धः संजय-पाण्डेयः मङ्गलवासरे अदात्।
सः अवदत् यत् श्री-विद्यामठे शङ्कराचार्य-महाराजस्य चरण-पादुकयोः पूजनं कृत्वा भक्तैः तस्य स्वागत-वन्दनं क्रियिष्यते। अपि च चैत्र-नवरात्रस्य प्रतिपदा-दिने, १९ मार्चे, नवसंवत्सरोत्सवस्य अवसरः भविष्यति, यस्मिन् शङ्कराचार्य-महाराजः सनातन-पञ्चाङ्गस्य विमोचनं करिष्यति। तस्य सान्निध्ये नवरात्र-पर्यन्तं भगवत्याः विशेष-पूजनं सह विविधैः धार्मिक-माङ्गलिक-अनुष्ठानैः सम्पन्नं भविष्यति।
तथैव नवरात्रस्य प्रथम-दिने प्रातः-मङ्गल-कार्यक्रमस्य विंशतितमे वार्षिकोत्सवे बटुक-विद्यार्थिभिः नव-वर्षस्य नव-सूर्याय प्रथम-अर्घ्यं दास्यते। ततः अनन्तरं बटुकाः विविध-कार्यक्रमान् प्रस्तोष्यन्ति।
---------------
हिन्दुस्थान समाचार