Enter your Email Address to subscribe to our newsletters

मण्डीनगरम्, १८ मार्चमासः (हि.स.)। राजकीय–महाविद्यालये निहारी–स्थले तृतीय–वर्षीय–छात्राणां सम्मानार्थं विदाय–समारोहस्य आयोजनं कृतम्। अस्य कार्यक्रमस्य आयोजनं प्रथम–द्वितीय–वर्षीय–छात्रैः महता उत्साहेन सम्पन्नम्।कार्यक्रमे मुख्यातिथिरूपेण निहारी–क्षेत्रस्य प्रसिद्धः समाजसेवी दलीप–सिंह–ठाकुरः उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षतां महाविद्यालयस्य प्राचार्या डॉ.सीमा–शर्मा कृतवती, या अस्मिन् अवसरे मुख्यातिथिना सह विशिष्टातिथिरूपेण अपि उपस्थितवती।
कार्यक्रमस्य अवसरे विविधाः सांस्कृतिक–प्रस्तुतयः आयोजिताः, येन समग्रं वातावरणं अत्यन्तं आनन्दमयं उत्साहपूर्णं च अभवत्।अस्मिन् अवसरे “मिस्–विदायः”, “मिस्टर–विदायः”, “मिस्–पर्सनैलिटी” तथा “मिस्टर–पर्सनैलिटी” इत्यादिनां चयनम् अपि कृतम्। “मिस्–विदायः” प्रिया, “मिस्–पर्सनैलिटी” प्रेरणा, “मिस्–सौन्दर्यं” हिमानी, “मिस्टर–विदायः” लीलाधरः, “मिस्टर–पर्सनैलिटी” विजय–कुमारः इति घोषिताः।
समारोहे महाविद्यालयस्य सर्वे कर्मचारिणः उपस्थिताः आसन् तथा तृतीय–वर्षीय–छात्राणां उज्ज्वल–भविष्याय शुभाशंसाः प्रदत्ताः।
मुख्यातिथिना दलीप–सिंह–ठाकुरः तथा प्राचार्या डॉ.सीमा–शर्मा स्वीय–सम्बोधने छात्रान् प्रेरितवन्तौ तेषां उज्ज्वल–भविष्यस्य कामनां च कृतवन्तौ।कार्यक्रमस्य समापनं हर्षोल्लासेन मधुर–स्मृतिभिः सह सम्पन्नम्।
हिन्दुस्थान समाचार / अंशु गुप्ता