Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, १८ मार्चमासः (हि.स.)।झारखंड-विधानसभायाः वित्तविवरण-सत्रस्य अन्तिमे दिने बुधवासरे विधानसभा-परिसरः “जय श्रीराम” इति घोषैः निनादितः अभवत्। सदनस्य कार्यवाही आरम्भात् पूर्वं भारतीय-जनता-पक्षः तथा ऑल-झारखंड-स्टूडेण्ट-यूनियन इत्येतयोः विधायकाः विधानसभा-द्वारस्य बहिः भगवतः श्रीरामस्य चित्रं धारयन्तः घोषणां कृत्वा विरोध-प्रदर्शनं कृतवन्तः।
विपक्षीय-विधायकाः हजारीबाग-जनपदे रामनवमी-यात्रायाः समये डीजे-वादनस्य उपरि प्रशासनदत्त-प्रतिबन्धस्य विरोधे तख्ती-विज्ञापनानि वहन्तः प्रदर्शनं कृतवन्तः। ते राज्य-सर्वकारं तुष्टीकरण-राजनीतिं कुर्वन्तीति आरोपं कृतवन्तः।
प्रदर्शनं कुर्वन्तः भाजपा तथा आजसू विधायकाः अवदन् यत् हजारीबागस्य बड़कागांव-प्रदेशस्य महूदी-क्षेत्रे रामनवमी-यात्रायां डीजे-वादनस्य निषेधः अनुचितः। तेषां मतम् आसीत् यत् एषः निर्णयः विशेष-समुदायस्य तुष्ट्यर्थं कृतः। हजारीबागस्य भाजपा-विधायकः प्रदीप-प्रसादः एतत् आदेशं “तुगलकी-फरमानम्” इति निर्दिश्य उक्तवान् यत् क्षेत्रस्य जनाः एतत् न स्वीकुर्वन्ति।
नेता-प्रतिपक्षः बाबूलाल-मराण्डी अपि प्रतिक्रियाम् दत्वा उक्तवान् यत् रामनवमी-इव धार्मिक-पर्वणि एतादृशः प्रतिबन्धः दुःखदः। तेन प्रश्नः अपि कृतः यत् यः महूदी-प्रदेशः संवेदनशीलः इति कथ्यते, सः अद्यापि किमर्थं संवेदनशीलः। तेन आरोपः कृतः यत् प्रशासनम् असामाजिक-तत्त्वेषु कठोर-कार्यवाहीं कर्तुं त्यक्त्वा एतादृशैः प्रतिबन्धैः स्थितिं अधिकं जटिलां करोति।
अपरतः मन्त्री इरफान-अंसारी उक्तवान् यत् केचन विधायकाः वातावरणं दूषयितुं जनान् उद्दीपयितुं च प्रयत्नं कुर्वन्ति, येषां विरुद्धं कार्यवाही भविष्यति। तेन स्पष्टं कृतम् यत् रामनवमी-उत्सवस्य आयोजनं न निषिद्धम्, केवलं डीजे-वादनस्य एव प्रतिबन्धः। एषः निर्णयः न्यायालयस्य निर्देशानां तथा स्वास्थ्य-सम्बद्ध-कारणानां विचारं कृत्वा स्वीकृतः इति तेन उक्तम्।
मन्त्रिणः एतदपि उक्तं यत् बहवः विधायकाः प्रथमवारं निर्वाचिताः सन्ति, तेषां नियमज्ञानं न्यूनम् अस्ति। अतः तेन विधानसभा-अध्यक्षं प्रति नव-निर्वाचित-विधायकानां कृते विशेष-प्रशिक्षणस्य व्यवस्थां कर्तुं निवेदनं कृतम्।
अस्य विषयस्य कारणात् सदनस्य अन्तः बहिः च राजनैतिक-वातावरणं उष्णं जातम्, पक्ष-विपक्षयोः मध्ये तीव्रं वाक्-युद्धम् अपि दृष्टम्।
हिन्दुस्थान समाचार