Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १८ मार्चमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनयादवः उक्तवान् यत् अस्माकं सर्वे उत्सवाः शुभ-तिथिषु भवन्ति, ये विक्रमसंवत्-आधारिताः सन्ति। अस्यैव क्रमस्य अन्तर्गतं वर्ष-प्रतिपदा, विक्रमसंवत् २०८३ अवसरे गुरुवासरे १९ मार्चमासे सम्पूर्णे राज्ये सर्वेषु जनपद-मुख्यालयेषु प्रातः १० वादने सूर्योपासना-कार्यक्रमाः तथा सांस्कृतिक-कार्यक्रमाः आयोज्यन्ते।
मुख्यमंत्री डॉ.यादवः अवदत् यत् उज्जयिनी-नगरे शताब्दीनां यावत् धर्म-ज्ञान-विज्ञान-संस्कृति-ज्योतिः प्रज्वलिता अस्ति। अत्र विक्रमोत्सव-नाम्नः सांस्कृतिक-महापर्व प्रचलति। महान्-सम्राट्-विक्रमादित्येन या परम्परा स्थापिता, सा अद्यापि अस्माकं प्रेरणास्रोतः अस्ति।
विक्रमोत्सवस्य ख्यातिः शीघ्रं वर्धमाना अस्ति। उज्जयिनीनगरम् कालगणनायाः केन्द्रम् आसीत्। श्रीमहाकालेश्वर-मन्दिरस्य शिखरे ब्रह्मध्वजः स्थाप्यते तथा सम्राट्-विक्रमादित्यस्य शौर्यगाथां जनं जनं प्रति प्रेषयितुं सर्वेषु जनपदेषु “सम्राट् विक्रमादित्यः” इति नाट्य-प्रस्तुति: भविष्यति।
अनेन सह सामान्यजनान् नववर्षस्य महत्त्वं ज्ञापयितुं “भारतस्य नववर्षं विक्रमसंवत्” इति पुस्तिकायाः वितरणं अपि भविष्यति। जनसंपर्क-अधिकारी अनुरागः उइके अवदत् यत् मुख्यमंत्री डॉ.यादवः भोपालस्थिते रवीन्द्र-भवने मुख्य-कार्यक्रमे सहभागी भविष्यति।
विक्रमोत्सव–२०२६ अन्तर्गतं १९ मार्चमासे प्रातः १० वादने सूर्योपासना-कार्यक्रमः आयोज्यते, यस्मिन् “सम्राट् विक्रमादित्यः” इति विषयकं नाट्य-प्रदर्शनं भविष्यति। संस्कृति-विभागस्य अधीनं मध्यप्रदेश-नाट्य-विद्यालयेन विभिन्नेषु जनपद-मुख्यालयेषु नाट्यदलानि प्रेषितानि सन्ति।गुड़ी-पड़वा-पर्वणि विधानसभा-अध्यक्षः नरेन्द्रसिंहः तोमरः ग्वालियर-नगरे सहभागी भविष्यति। उप-मुख्यमन्त्री जगदीशः देवड़ा मंदसौर-नगरे तथा राजेन्द्रशुक्लः रीवा-जनपदे कार्यक्रमेषु उपस्थितौ भविष्यतः। अन्येऽपि अनेके मन्त्रिणः स्व-स्व-जनपदेषु उत्तरदायित्वेन नियुक्तताः सन्ति।
विक्रमोत्सव–२०२६ महाराज-विक्रमादित्य-शोध-पीठस्य तथा मध्यप्रदेश-शासनस्य संस्कृति-विभागस्य संयुक्त-तत्त्वावधानेन १५ फरवरीमासतः आरभ्य १९ मार्चमासपर्यन्तं प्रचलति। अस्मिन् उत्सवे उज्जयिनी-नगरे निरन्तरं सांस्कृतिक-साहित्यिक-धार्मिक-वैचारिक-कार्यक्रमाः आयोज्यन्ते, यत्र देशस्य विभिन्नप्रदेशेभ्यः आगताः कलाकाराः, विद्वांसः, सांस्कृतिक-साधकाः च स्व-प्रतिभां प्रदर्शयन्ति।
अस्य उत्सवस्य माध्यमेन सम्राट्-विक्रमादित्यस्य गौरवशाली-परम्परा, भारतीयसंस्कृतिः तथा उज्जयिन्याः समृद्धः सांस्कृतिक-धरोहरः जनं जनं प्रति प्रसारिता भवति। संगीत-नृत्य-नाटक-लोककला-वैचारिक-संगोष्ठीभिः दर्शकाः भारतीयपरम्परायाः विविधतां ज्ञातुं शक्नुवन्ति।
उल्लेखनीयम् यत् विक्रमोत्सव–२०२५ “ईमैक्सम ग्लोबल अवार्ड” द्वारा “लाङ्गस्टैण्डिङ् आईपी ऑफ द इयर” इति सम्मानं प्राप्तवान्, तथा एशिया-स्थितेषु प्रतिष्ठितेषु वाऊ-पुरस्कार-मध्ये गोल्ड-पुरस्कारम् अपि लब्धवान्। भविष्ये अपि अयं उत्सवः स्वस्य सांस्कृतिक-वैशिष्ट्येन विश्वे प्रतिष्ठां प्राप्स्यति।
हिन्दुस्थान समाचार