सैनिक–कल्याण–मन्त्री शहीद–द्वाराणां स्मारकानां च निर्माणे तीव्रतां वर्धयितुं निर्देशान् अयच्छत्
देहरादूननगरम्, १८ मार्चमासः (हि.स.)। सैनिक–कल्याण–मन्त्री गणेश–जोशी प्रदेशे शहीद–द्वाराणां स्मारकानां च निर्माणकार्येषु तीव्रतां वर्धयितुं निर्देशान् अयच्छत्। अस्मिन् सम्बन्धे सः बुधवासरे स्वस्य शिविर–कार्यालये सैनिक–कल्याण–विभागस्य अधिकारिभिः सह स
मंत्री गणेश जोशी कैंप कार्यालय में सैनिक कल्याण विभाग के अधिकारियों के साथ बैठक करते हुए।


देहरादूननगरम्, १८ मार्चमासः (हि.स.)। सैनिक–कल्याण–मन्त्री गणेश–जोशी प्रदेशे शहीद–द्वाराणां स्मारकानां च निर्माणकार्येषु तीव्रतां वर्धयितुं निर्देशान् अयच्छत्। अस्मिन् सम्बन्धे सः बुधवासरे स्वस्य शिविर–कार्यालये सैनिक–कल्याण–विभागस्य अधिकारिभिः सह सभां कृत्वा विविध–परियोजनानां समीक्षाम् अकरोत्।

सभायां मन्त्री गणेश–जोशी अवदत् यत् वित्तीय–वर्षे २०२५–२६ राज्यस्य विभिन्न–जनपदेषु षट् शहीद–द्वाराणां स्मारकाणां च निर्माणाय स्वीकृतिः प्रदत्ता आसीत्। सः अधिकारिणः निर्देशितवान् यत् सर्वाः परियोजनाः शीघ्रं धरातले स्थापयित्वा प्रशासनिक–तकनीकी–प्रक्रियासु तीव्रताम् आनयन्तु तथा निर्धारित–समयसीमायां कार्याणि सम्पन्नानि कुर्वन्तु। मन्त्रिणा उक्तं यत् शहीद–द्वाराणां स्मारकाणां च निर्माणे अत्याधुनिक–रूपरेखा, स्थानीय–स्थापत्य–कला तथा भारतीय–सैन्य–परम्पराणां समन्वयः सुनिश्चितः क्रियते।

तेन अस्य उपक्रमस्य कृते मुख्यमन्त्रिणं पुष्कर–सिंह–धामीं प्रति कृतज्ञता अपि व्यक्ता, उक्तं च यत् एते स्मारकाः बलिदानिन: प्रति श्रद्धाञ्जलिं दत्त्वा राष्ट्रभक्तेः बलिदानस्य च भावनां जन–जनपर्यन्तं प्रसारयिष्यन्ति।

तेन उक्तं यत् स्वीकृत–निर्माण–कार्येषु अल्मोड़ा–जनपदे नायक गौरी–दत्त–जोशी, चम्पावत–जनपदे कैप्टन उमेद–सिंह–मेहरा (अशोक–चक्र), चमोली–जनपदे राइफलमैन मोहन–सिंहः तथा गनर केसर–सिंहः, पिथौरागढ़–जनपदे सिपाही शिवलाल–वर्मा तथा पौड़ी–गढ़वाल–जनपदे राइफलमैन हरी–सिंहः (शौर्य–चक्र) इत्येषां नाम्ना शहीद–द्वाराणि स्मारकानि च निर्मास्यन्ते। सभायां सैनिक–कल्याण–विभागस्य उपनिदेशकः लेफ्टिनेंट–कर्नल वीरेंद्र–प्रसाद–भट्ट: (सेवानिवृत्तः) तथा विंग–कमाण्डर निधि–बधानी (सेवानिवृत्ता) इत्येतै: सह अन्ये अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता