Enter your Email Address to subscribe to our newsletters

वाराणसी, 18 मार्चमासः (हि. स.)l उत्तरप्रदेशस्य वाराणसिनगरे श्रीकाशीविश्वनाथमन्दिरन्यासेन सञ्चालिता गङ्गाआरती सनातनिनववर्षस्य प्रथमदिने गुरुवासरात् आरभ्यते। अस्य पावनसमारोहस्य निमित्तं श्रद्धालुषु अत्यन्तं उत्साहः दृश्यते। ललिताघाटे भवत्याः गङ्गाआरत्याः व्यवस्थां दृष्ट्वा देशविदेशेभ्यः आगताः भक्ताः विशेषतः आनन्दिताः दृश्यन्ते। अनेके श्रद्धालवः स्वानुभवान् साझीकुर्वन्तः अस्य दिव्यसमारोहस्य अङ्गत्वं स्वसौभाग्यं मन्यन्ते।
मन्दिरन्यासेन उक्तं यत् गुरुवासरे सायं षड्वादनात् गङ्गाआरत्याः शुभारम्भः भविष्यति। न्यासेन सूचितं यत् सर्वाः आवश्यकव्यवस्थाः सम्पन्नाः सन्ति। एतत् सुनिश्चितं कृतम् यत् श्रद्धालवः आरतीदर्शनसमये कस्यापि प्रकारस्य असुविधां न अनुभविष्यन्ति। मन्दिरन्यासः सर्वान् श्रद्धालून् अनुशासनपालनं कर्तुं तथा व्यवस्थायां सहयोगं दातुं प्रार्थयति, येन अयं आध्यात्मिकसमारोहः शान्तिपूर्णतया सुव्यवस्थितरूपेण च सम्पन्नः भवेत्।
हिन्दुस्थान समाचार