Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १९ मार्चमास: (हि.स.)। असम-प्रदेश-कांग्रेस-समितेः (एपीसीसी) गुवाहाटी-स्थितात् मुख्यालयात् राजीव-भवनात् गुरुवासरे प्रायः विंशतिः (२०) प्रत्याशिनः नामाङ्कन-पत्र-प्रस्तुतेः कृते ‘फॉर्म् ए’ तथा ‘फॉर्म् बी’ संग्रहीतवन्तः।
एतेषु प्रत्याशिषु राज्यसभायाः पूर्व-सांसदः तथा बरसला-निर्वाचन-क्षेत्रस्य प्रत्याशी रिपुन-बोरा, दिसपुर-निर्वाचन-क्षेत्रस्य प्रत्याशिनी मीरा-बोरठाकुर, धेमाजी-निर्वाचन-क्षेत्रस्य प्रत्याशी शैलेन-सोनोवाल:, हाजो-सुवालकुची-निर्वाचन-क्षेत्रस्य प्रत्याशिनी नन्दिता-दास तथा जागीरोड-निर्वाचन-क्षेत्रस्य प्रत्याशी बुबुल-दास इत्यादयः सन्ति।
कांग्रेस-सूत्रैः उक्तं यत् प्रदेश-कांग्रेसस्य प्रशासनिक-महासचिवात् प्रद्युत-भुइंया इत्यस्मात् एतानि निर्वाचन-प्रपत्राणि प्राप्तवन्तः अधिकांश-प्रत्याशिनः २० मार्चमासे स्व-नामाङ्कन-पत्राणि प्रस्तोष्यन्ति। प्रदेश-कांग्रेस-पक्षतः अपि उक्तं यत् एवं प्रकारेण आगामि-शुक्रवासरे अपि केचन प्रत्याशिनः एतानि प्रपत्राणि प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता