Enter your Email Address to subscribe to our newsletters

पटनानगरम्/नवदिल्ली, १९ मार्चमासः (हि.स.)। बिहार-राज्यम् अधुना राष्ट्रीय-ऊर्जा-विमर्शे केवलं सहभागितां न करोति, अपितु नेतृत्वस्य दिशि स्वपदानि शीघ्रतया प्रसारयति। अस्यैव क्रमस्य अन्तर्गतं भारत-सर्वकारस्य ऊर्जा-मन्त्रालयस्य प्रयत्नेन आयोजिते भारत-इलेक्ट्रिसिटी-सम्मिट् २०२६ मध्ये ‘फोकस-स्टेट्’ रूपेण सम्मिलितः बिहारप्रदेशः यशोभूमि, नवदिल्ली-मध्ये स्वस्य सशक्तं दृष्टिकोणं (विजनम्) उपलब्धयः च प्रभावकरूपेण प्रस्तूतवान्।
चतुर्दिवसीये अस्मिन् वैश्विक-सम्मेलनेन सह प्रदर्शने प्रथम-दिवसे बिहार-प्राङ्गणस्य उद्घाटनं ऊर्जा-मन्त्री बिजेन्द्रप्रसादयादवः कृतवान्, येन राज्यस्य उपस्थितिः नूतनं परिचयं प्राप्तवती। अस्मिन् अवसरे ऊर्जा-विभागस्य सचिवः मनोजकुमारसिंहः विशिष्टातिथिरूपेण उपस्थितः आसीत्, तथा उत्तरी-बिहार-पावर-डिस्ट्रीब्यूशन-कम्पनी लिमिटेड-संस्थायाः प्रबन्ध-निदेशकः राहुलकुमारः अपि उपस्थितः आसीत्।
यशोभूमेः द्वितीय-प्रदर्शिनी-गृहे (हॉल-२), स्टैण्ड-संख्या 2E51 स्थले स्थापितं बिहार-प्राङ्गणम् अद्यतनकाले आकर्षण-केंद्रं जातम्। अत्र राज्यं स्वस्य ऊर्जा-क्षेत्रे कृतानि परिवर्तनानि, निवेशस्य विशाल-संभावनाः, ‘पावरिंग बिहार’ कार्यक्रमस्य अन्तर्गतं सम्पन्नानि कार्याणि च सम्यक् प्रभावकरूपेण प्रदर्शयति। एतत् प्राङ्गणं न केवलं उपलब्धिनां प्रदर्शनम्, अपितु भविष्य-दृष्टेः अपि सजीव-चित्रम् अस्ति।
सम्मेलनस्य प्रथम-दिने उद्घाटन-सत्रे, स्टॉल-अवलोकनस्य मीडिया-संवादस्य माध्यमेन बिहारप्रदेशः स्वमतं प्रस्तुतवान्। अन्ताराष्ट्रिय-मन्त्रिस्तरीय-सभासु तथा सीईओ-स्तरीय-चर्चासु अपि राज्यस्य सक्रिय-सहभागिता तस्य वैश्विक-ऊर्जा-संवादे महत्त्वं प्रदर्शयति। अग्रिमेषु दिनेषु अपि एषा सहभागिता वर्धिष्यते।
द्वितीय-दिने मन्त्रिस्तरीय-गोलमेज-सभा तथा निवेश-केंद्रित-चर्चाः भविष्यन्ति, यत्र ऊर्जा-सचिवेन सह पीडब्ल्यूसी (PwC)-संस्थायाः सहभागी अभिजीतः रे अपि उपस्थितः भविष्यति, यत्र नवीन-निवेशस् अवसराः विचारिताः भविष्यन्ति। तृतीय-दिने सम्भावित-निवेशकैः सह प्रत्यक्ष-संवादः आयोज्यते, यत्र बिहारप्रदेशः स्वनीतयः संभावनाः च विस्तारतः प्रस्तोष्यति। अस्मिन्नेव दिने ऊर्जा-सचिवः मीडिया-माध्यमेन राज्यस्य ऊर्जा-नीतिं भविष्य-दिशां च स्पष्टयिष्यति।
अन्तिम-दिने समापन-समारोहेन सह सम्पूर्ण-आयोजनस्य उपलब्धयः निष्कर्षाश्च प्रस्तूयन्ते। अस्मिन् सम्मेलनस्य अन्तर्गतं बिहारप्रदेशः स्वस्य ऊर्जा-क्षेत्रस्य चत्वार-प्रमुख-आयामान् विशेषतः प्रदर्शितवान्, ये राज्यस्य परिवर्तितं स्वरूपं भविष्य-तत्परता च स्पष्टयन्ति। पम्प्ड-स्टोरेज-प्रोजेक्ट्स माध्यमेन ग्रिड-स्थिरता नवीकरणीय-ऊर्जा-संयोजनं च सुदृढं क्रियते, तथा कजरा-सौर-परियोजना (बैटरी-ऊर्जा-संग्रह-प्रणाली सहित) स्वच्छ-विश्वसनीय-ऊर्जा-आपूर्तेः उत्तमम् उदाहरणम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता