Enter your Email Address to subscribe to our newsletters

अजमेरम्, १९ मार्चमासः (हि.स.)। महर्षि-दयानन्द-सरस्वती-विश्वविद्यालये, अजमेर-नगरे आयोजितस्य पञ्चदश-दिवसीय-पीएच.डी.-पाठ्यक्रमस्य समापन-अवसरे कुलगुरुः प्रो.सुरेश-कुमार-अग्रवालः शोधार्थिनः सम्बोधयन् उक्तवान् यत् शोधः केवलं उपाधि-प्राप्तेः साधनं न भवेत्, अपितु तस्य उद्देश्यं समाजस्य राष्ट्रस्य च विकासे योगदानं दातुं भवेत्।
तेन उक्तं यत् अद्य देशे शोध-कार्याणां संख्या अधिका अस्ति, किन्तु तेषां वास्तविकः प्रभावः अल्पः दृश्यते। अतः आवश्यकं यत् प्रत्येकं शोधार्थी स्वस्य शोधं समाजस्य आवश्यकताभिः संयोजयेत् तथा च तादृशं कार्यं कुर्यात् यत् दीर्घकालीन-उपयोगितां धारयेत्।
कुलगुरुणा शोधस्य मूलभूत-स्वरूपं स्पष्टयता ह्यूमैनिटीज् तथा सोशल-साइंसेस इत्येतयोः मध्ये भेदः अपि निरूपितः। तेन उक्तं यत् सोशल-साइंसेस-क्षेत्रे ‘हाइपोथेसिस’-आधारितः शोधः भवति, ह्यूमैनिटीज्-क्षेत्रे तु ‘रिसर्च-क्वेश्चन्स्’ प्रमुखाः भवन्ति, एष एव उभयोः मध्ये मूलभूतः भेदः अस्ति।
तेन अस्य पाठ्यक्रमस्य विशिष्टताः अपि उल्लिखिताः यत् विश्वविद्यालये प्रथमवारं सोशल-साइंसेस, ह्यूमैनिटीज्, साइंस, मैनेजमेंट् तथा फिजिकल-एजुकेशन इत्येतान् पृथक्-पृथक् वर्गेषु विभज्य व्यवस्थित-रूपेण प्रशिक्षणं दत्तम्, येन शोधस्य गुणवत्तायाः उन्नयन-दिशि महत्त्वपूर्णं पादं निक्षिप्तम्।
प्रो.अग्रवालः शोधार्थीन् भारतीय-ज्ञान-परम्परया सह संयोजनाय आह्वानं कृत्वा उक्तवान् यत् यावत् शोधः स्वसंस्कृत्या स्वमूलैः च सह न सम्बध्यते, तावत् सः मौलिकः सार्थकः च न भवति। तेन ऋषि-परम्परायाः उल्लेखं कृत्वा उक्तं यत् प्राचीन-भारतीय-विद्वांसः समाजोपयोगिनः शोधान् अकुर्वन्, ये अद्यापि प्रासंगिकाः सन्ति।
तेन शोधार्थिभ्यः आग्रहः कृतः यत् ते तादृशं विषयं चिन्वन्तु यः समाजाय उपयोगी भवेत् तथा च यस्य परिणामतः कश्चन दृढ-उत्पादः, नीति:, शिक्षण-पद्धतिः अथवा समाधानं विकसितुं शक्येत।
कार्यक्रमे शोधार्थिनां अनुशासनप्रियतायाः प्रशंसा कुर्वन् कुलगुरुः अवदत् यत् एतादृशे विशाल-समूहे अपि अनुशासनस्य पालनं प्रशंसनीयम् अस्ति, यत् तेषां उज्ज्वल-भविष्यस्य सूचकः अस्ति।
शोध-निदेशकः प्रो.सुब्रतो-दत्तः स्वोद्बोधने उक्तवान् यत् एषः पञ्चदश-दिवसीय-प्रशिक्षण-कार्यक्रमः शोधार्थिभ्यः केवलं प्रक्रिया न शिक्षितवान्, अपि तु शोधस्य वास्तविक-उद्देश्यं सामाजिक-योगदानस्य भावना च विकसितवान्।
अधिष्ठाता-छात्र-कल्याणः प्रो.सुभाष-चन्द्रः अवदत् यत् प्रायः २०० शोधार्थिनः अस्मिन् पाठ्यक्रमे सहभागिनः आसन्, सर्वे ७५ प्रतिशताधिक-उपस्थितिं दत्तवन्तः तथा सफलतया स्वानि असाइनमेंट्, परीक्षणानि प्रस्तुतयः च सम्पन्नवन्तः।
कार्यक्रमस्य अन्ते शोधार्थिनः स्वानुभवान् व्यक्तवन्तः यत् एषः पाठ्यक्रमः तान् न केवलं शोधस्य तकनीकी-ज्ञानं दत्तवान्, अपि तु जीवने निरन्तर-अध्ययनस्य परिवर्तन-स्वीकारस्य च प्रेरणाम् अपि प्रदत्तवान्।
समापन-समारोहे सर्वेभ्यः प्रतिभागिभ्यः उज्ज्वल-भविष्यस्य शुभाशयाः प्रदत्ताः तथा एतत् विश्वासः व्यक्तः यत् विश्वविद्यालयस्य शोधार्थिनः भविष्ये एतादृशान् उत्कृष्ट-शोधान् प्रस्तोष्यन्ति, येषु विश्वविद्यालयः गर्वं अनुभविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता