Enter your Email Address to subscribe to our newsletters

१९ मार्चमासः (हि.स.)। महाराज-गङ्गासिंह-विश्वविद्यालयस्य इतिहास-विभागस्य विभागाध्यक्षा डॉ.मेघना शर्मा सरदारशहरस्थे कमलादेवी-गौरीदत्त-मित्तल-महिला-स्नातकोत्तर-महाविद्यालये भारतीय-सामाजिक-विज्ञानानुसंधान परिषद्, नवदिल्ली द्वारा प्रायोजिते राष्ट्रीय-शिक्षा-नीति २०२०: भारतीयसंस्कृतिसंवर्धनस्य दिशि एकः प्रयासः इति विषयकस्य द्विदिवसीय-राष्ट्रीयसम्मेलनस्य द्वितीये दिने प्रमुख-वक्तृत्वेन अभाषत।
सा उक्तवती यत् नवीना राष्ट्रीय-शिक्षा-नीतिः एकं जीवन्तं तथ्यम् अस्ति, यस्मिन् समग्र-विकासस्य पुनरुज्जीवनस्य संकल्पः स्थाप्यते। अस्यां नूतनपद्धत्यां शिक्षां प्राप्य वंशः आत्मनिर्भर-भारतस्य स्वप्नस्य पूर्तिं प्रति उन्मुखः भविष्यति।डॉ.मेघना प्राचीन-भारतीय-इतिहासात् उदाहरणानि प्रदर्शयित्वा भारतीय-ज्ञानपरंपरायाः पाठनस्य औचित्यं प्रासंगिकतां च वर्णितवती।
एतस्मात् पूर्वं डॉ.मेघनायाः विस्तृतपरिचयः मञ्चतः उद्घोषिकया डॉ.रश्मिगौड़-द्वारा पठितः।
सम्मेलन-संयोजकः डॉ.मयंकः गुप्ता, प्राचार्यः डॉ.मृत्युंजयः पारीकः, प्रबंधन-पक्षस्य महेशः पंसारी डॉ.मेघनायै स्मृति-चिन्हं प्रदाय आभारं व्यक्तवन्तः।मञ्चे उपस्थितः शिक्षाविदः प्रो.योगेन्द्रसिंहः डॉ.जी.डी.सिंहः इत्यादयः सम्मिलिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता