Enter your Email Address to subscribe to our newsletters

कानपुरम्, १९ मार्चमास: (हि.स.)। एकतः यत्र सम्पूर्णं नगरं धार्मिक-आस्थाया: उल्लासस्य च वातावरणे उत्सवानां सज्जतां कुर्वन् अस्ति, अपरतः नगर-निगमस्य उदासीनतया सामान्य-जनाः मलिनतया दुर्व्यवस्थया च पीडिताः सन्ति। नगरस्य प्रमुख-चतुष्पथेषु, विपणेषु कूटकस्य राशयः सञ्चिताः सन्ति, येन न केवलं वातावरणं दूषितं भवति, अपि तु संक्रामक-रोगाणां प्रसरणस्य अपि भय: वर्धित: अस्ति। एतानि वचनानि गुरुवासरे कांग्रेस-महानगर-अध्यक्षः पवन-गुप्तः उक्तवान्।
कानपुर-महानगर-कांग्रेसस्य तत्त्वाधाने अद्य मेस्टन-रोड-स्थिते कांग्रेस-कार्यालये तिलक-हॉल-नाम्नि पवन-गुप्तस्य अध्यक्षतायां वरिष्ठ-कांग्रेस-नेतॄणां महत्त्वपूर्णा सभा आयोजिता आसीत्। अस्यां सभायां अग्रिमयो: ईद्-नवरात्रि-उत्सवयोः दृष्ट्या नगरे विद्यमानस्य मलिनताया:, सर्वत्र सञ्चित-कूट-राशिनां, दुर्दशित-स्वच्छता-व्यवस्थायाः तथा नगर-निगमस्य शिथिलताया: विषये गम्भीरः आक्रोशः व्यक्तः।
पवन-गुप्तः अवदत् यत् बहुवारं जनपदाधिकारिणं नगर-आयुक्तं च अस्याः गम्भीर-समस्यायाः विषये अवगतं कर्तुं प्रयासः कृतः, किन्तु अत्यन्तं दुःखदं यत् उत्तरदायिनः अधिकारिण: अपि दूरभाषं ग्रहीतुं न इच्छन्ति। एषा प्रशासनिक-उदासीनता जनसामान्यं प्रति असंवेदनशीलतां प्रदर्शयति, या कदापि न सह्यते।
कांग्रेस-नेतारः एकस्वरेण आग्रहं कृतवन्तः यत्— तत्क्षणात् प्रभावात् नगरस्य सर्वेषु क्षेत्रेषु विशेष-स्वच्छता-अभियानं प्रवर्त्यताम्। कूटक-उत्थापन-व्यवस्था सम्यक् क्रियेत। मुख्य-विपण-धार्मिक-स्थलयोः समीपे स्वच्छता सुनिश्चितीक्रियेत।
उत्सव-कालस्य अवधौ अतिरिक्त-स्वच्छता-कर्मचारिणां नियुक्तिः क्रियेत।सभायां संचेतना अपि दत्ता यत् यदि शीघ्रमेव स्वच्छता-व्यवस्थायां सुधारः न क्रियते, तर्हि कानपुर-महानगर-कांग्रेसः जनसामान्येन सह मार्गेषु अवतीर्य व्यापकं आन्दोलनं करिष्यति, यस्य सम्पूर्णं दायित्वौ प्रशासनस्य भविष्यति।
अन्ते पवन-गुप्तः अवदत् यत् कांग्रेस-पक्ष: सदा जनहित-प्रश्नान् प्राथमिकतया गृह्णाति तथा अग्रिमकालेषु अपि जनसामान्यस्य वाचं दृढतया उत्थापयिष्यति। नगरवासिनां कृते स्वच्छं स्वस्थं च वातावरणं प्रदातुं प्रशासनस्य प्रमुखं दायित्वम् अस्ति, यस्मात् सः कदापि विमुखः भवितुं न शक्नोति।
अस्मिन् अवसरे धर्मेन्द्र-सिंहः, अमरेन्द्र-प्रताप-सिंहः, राजेश-द्विवेदी, शङ्कर-दत्त-मिश्रः, पद्म-मोहन-मिश्रः, इकबाल-अहमदः, रितेश-यादवः, अरुण-गुप्तः, अकील-अहमदः, अमिताभ-दत्त-मिश्रः, बृजभान-रायः, राम-प्रकाश-तिवारी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता