Enter your Email Address to subscribe to our newsletters

अजमेरम्, १९ मार्चमास: (हि.स.)। महर्षि-दयानन्द-सरस्वती-विश्वविद्यालये, अजमेर-नगरे महर्षि-दयानन्द-सरस्वती-वीथिकायाः विधिवद् उद्घाटनं कुलगुरुणा प्रो.सुरेश-कुमार-अग्रवालेन कृतम्।
कुलगुरुणा अस्य महत्त्वपूर्णस्य प्रयत्नस्य कृते शोध-पीठ-निदेशिका तथा यूजीसी-चेयर-प्रोफेसर प्रो.ऋतू-माथुर-महाभागायाः आभार: व्यक्त: यत् तस्याः प्रयत्नैः एषा वीथिका साकाररूपेण प्रतिष्ठिता। एषा वीथिका विश्वविद्यालयस्य कृते एकं मील-प्रस्तरम् (माइल-स्टोन) इव सिद्धा भविष्यति तथा च मूल्याधारित-शिक्षां सुदृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
उल्लेखनीयं यत् विश्वविद्यालये स्थापितस्य महर्षि-दयानन्द-सरस्वती-शोध-पीठस्य अन्तर्गतं अस्याः वीथिकायाः स्थापना कृता अस्ति। उद्घाटनाय अद्यतनः दिवसः विशेषतया तस्मात् चयनितः यतः अस्मिन् एव दिने महर्षिणा दयानन्द-सरस्वतीना आर्य-समाजस्य स्थापना कृता आसीत्।
वीथिकायां महर्षि-दयानन्द-सरस्वतीन: जन्मनः आरभ्य तस्य जीवनस्य विविधाः प्रेरणादायकाः प्रसङ्गाः प्रदर्शिताः सन्ति, येन छात्राः शोधार्थिनश्च तस्य जीवन-मूल्येभ्यः, चिन्तनात् तथा समाज-सुधार-कार्येभ्यः प्रेरणां प्राप्तुं शक्नुवन्ति।
अस्मिन् अवसरे प्रो.ऋतू-माथुर-महाभागया उक्तं यत् महर्षि-दयानन्द-सरस्वती स्वजीवने अन्धविश्वासानां विरुद्धं स्वरं उत्थापितवान् तथा सत्यं, तर्कं वैदिक-मूल्यानि च प्रतिष्ठापितवान्। तस्य जीवनस्य एते बहवः प्रसङ्गाः अस्यां वीथिकायां समाहिताः सन्ति, ये छात्रान् चिन्तनाय आत्ममन्थनाय च प्रेरयिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता