Enter your Email Address to subscribe to our newsletters

भागलपुरम्, १९ मार्चमासः (हि.स.)। सामाजिक-सेवायाः दिशि प्रशंसनीयं प्रयत्नं कुर्वन्तौ रोटरी-क्लब-भागलपुरः तथा महावीर-सेवा-सदन-द्वारा आयोज्यमानस्य निःशुल्क-कृत्रिम-अङ्ग-प्रत्यारोपण-शिविरस्य विषये गुरुवासरे प्रेस-वार्ता आयोजिता।
अस्मिन् अवसरे आयोजकैः शिविरसम्बद्धा विस्तृता सूचना प्रदत्ता। प्रेस-वार्तायां उक्तं यत् “उम्मीद की किरण २०२६” कार्यक्रमस्य अन्तर्गतं एतत् शिविरं ०७, ०८, ०९ अप्रैलमासस्य तिथिषु भागलपुरस्य दीप-प्रभा-परिसरे आयोज्यते।शिविरस्य समयः प्रतिदिनं प्रातः १० वादनात् सायं ३ वादनपर्यन्तं निर्धारितः अस्ति। अस्मिन् शिविरे दिव्याङ्गजनानां कृते पूर्णतया निःशुल्काः कृत्रिम-अङ्गाः प्रदास्यन्ते, येन ते स्वदैनिक-जीवनं अधिक-सहजतया आत्मनिर्भरभावेन च नेतुं शक्नुवन्ति।
आयोजकैः उक्तं यत् शिविरस्य मुख्य-उद्देश्यम् आर्थिकदृष्ट्या दुर्बलान् आवश्यकतान्वितान् च दिव्याङ्ग-व्यक्तीन् सहायं कर्तुम् अस्ति। अस्य कृते लाभार्थिनां पंजीकरणं आरब्धं, अधिकाधिक-जनान् लाभं ग्राहयितुं अपि आह्वानं कृतम्।परियोजना-संबद्धैः पदाधिकारीभिः सूचितं यत् शिविरे अनुभवी-विशेषज्ञ-समूहः उपस्थितः भविष्यति, ये लाभार्थिनां परीक्षणं कृत्वा तेषां कृते उपयुक्तं कृत्रिम-अङ्गं प्रदास्यन्ति। ततः सह तत्रैव परामर्शः तथा नियोजन-सौविध्यम् अपि उपलब्धं भविष्यति।
उक्तं यत् इच्छुकाः लाभार्थिनः स्वस्य आवश्यक-अङ्गस्य विषये सूचना व्हाट्सएप्-माध्यमेन विडियो-रूपेण प्रेषयितुं शक्नुवन्ति, येन तेषां पूर्वमेव पंजीकरणं संपन्नं भविष्यति।
शिविर-दिने लाभार्थिभिः स्व-आधार-पत्रं सह आनयनं अनिवार्यम् अस्ति, ततः अनन्तरं कृत्रिम-अङ्ग-प्रदान-प्रक्रिया आरभ्स्यते। आयोजकैः सर्वान् जनान् प्रति आह्वानं कृतम् यत् एषा सूचना आवश्यकतान्वित-जनान् प्रति प्रेष्यताम्, येन अधिकाधिक-जनाः अस्य मानव-सेवा-कार्यस्य लाभं प्राप्नुयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता