Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, १९ मार्चमास: (हि.स.)। जनगणना-२०२७ सम्बन्धे जनपदे सज्जा: तीव्रतां प्राप्ताः सन्ति। प्रथम-चरणस्य अन्तर्गतं गृहनिर्गणनस्य कार्यं २२ मईमास २०२६ तः २० जूनमास २०२६ पर्यन्तं सम्पन्नं कर्तुं निश्चितम् अस्ति। अस्यैव क्रमस्य अन्तर्गतं क्षेत्र-स्तरे कार्यस्य सुचारु-रूपेण संचालनार्थं प्रशिक्षण-कार्यक्रमः गुरुवासरात् आरब्धः।
अपर-जनपदाधिकारी (वि/रा) तथा जनगणना-प्रभारी-अधिकारी अजय-कुमार-सिंहः अवदत् यत् जनपदे प्रथम-चरणस्य सफल-क्रियान्वयनाय त्रयः प्रशिक्षकाः नियुक्ताः सन्ति, ये लखनऊ-स्थितात् जनगणना-निदेशालयात् चतुर्दिवसीयं प्रशिक्षणं प्राप्तवन्तः। तदतिरिक्तं जनपदे चतुरशीतिः (८४) क्षेत्र-प्रशिक्षकाः अपि नियुक्ताः सन्ति।
एतेषां क्षेत्र-प्रशिक्षकाणां प्रशिक्षणार्थं त्रयः वर्गाः (बैचाः) निर्मिताः सन्ति। तेषु द्वयोः वर्गयोः प्रशिक्षणं जीडी-बिनानी-पीजी-काॅलेज-इत्यत्र १८ मार्चतः आरभ्य २० मार्चपर्यन्तं भविष्यति, तृतीय-वर्गस्य प्रशिक्षणं २३ मार्चतः २५ मार्चपर्यन्तं आयोज्यते।
प्रशिक्षणस्य द्वितीये दिने जनपदाधिकारी अपर-जनपदाधिकारी च कार्यक्रमे उपस्थाय प्रशिक्षकान् सम्बोधितवन्तौ। अधिकारिभिः जनगणनायाः महत्त्वं तथा प्रक्रियायाः विषये विस्तरेण सूचशा दत्ता, तथा च सर्वेभ्यः निर्देशः दत्तः यत् निर्धारित-समयसीमायाः अन्तर्गतं गृहनिर्गणनस्य कार्यं पूर्ण-उत्तरदायित्वेन यथार्थतया च सम्पन्नं क्रियते।
प्रशासनस्य उद्देश्यम् अस्ति यत् जनगणना-२०२७ इत्यस्य प्रथम-चरणं समयबद्ध-रूपेण त्रुटिरहिततया च सम्पन्नं भवेत्, येन अनुवर्तीप्रक्रिया अपि सुचारु-रूपेण प्रवर्तितुं शक्येत्।
हिन्दुस्थान समाचार / अंशु गुप्ता