जनपदे सेतुनिर्माणाय ४५ कोटि-रूप्यकाणां स्वीकृतिः लब्धा
जौनपुरम्, १९ मार्चमास: (हि.स.)। जनपदस्य विकासाय गतिं दातुं खुटहन-विकासखण्ड-क्षेत्रस्य गठाना-डण्डवा-ग्रामयोः समीपे गोमती-नद्याः उपरि सेतुनिर्माणस्य स्वीकृतिः प्राप्ता अस्ति। प्रदेश-सर्वकारस्य क्रीडा-युवा-कल्याण-राज्यमंत्री गिरिशचन्द्र-यादवस्य (स्वत
राज्य मंत्री गिरीश चंद यादव


जौनपुरम्, १९ मार्चमास: (हि.स.)। जनपदस्य विकासाय गतिं दातुं खुटहन-विकासखण्ड-क्षेत्रस्य गठाना-डण्डवा-ग्रामयोः समीपे गोमती-नद्याः उपरि सेतुनिर्माणस्य स्वीकृतिः प्राप्ता अस्ति।

प्रदेश-सर्वकारस्य क्रीडा-युवा-कल्याण-राज्यमंत्री गिरिशचन्द्र-यादवस्य (स्वतन्त्र-प्रभारः) मिडिया-प्रभारी मनीष-श्रीवास्तवः उक्तवान् यत् प्रदेशस्य मुख्यमन्त्रिणा योगी-आदित्यनाथेन वित्तीय-वर्षे २०२५–२६ राज्य-योजनान्तर्गतं गठाना-डण्डवा-ग्रामयोः समीपे गोमती-नद्याः उपरि सेतुनिर्माणाय ४५ कोटि ४ लक्ष ८६ सहस्र रूप्यकाणां प्रशासनिक-आर्थिक-स्वीकृतिः प्रदत्ता अस्ति।

अनेन सेतुनिर्माणेन जनपदस्य विकासाय अधिका गतिः भविष्यति तथा च स्थानीय-जनानां आवागमने सौविध्यं भविष्यति। समीपवर्ती-जनानां कृते प्रायः २०–२५ किलोमीटर-परिमितिः दूरता अपि न्यूना भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता