राजगढे विहिप-संस्थया आरोग्य-कामनया निम्ब-मिश्री-वितरणं कृतम्
कामनया सह निम्ब-मिश्री-वितरणं कृतम्
आरोग्य की कामना के साथ नीम मिश्री का किया वितरण


राजगढनगरम्, १९ मार्चमासः (हि.स.)। हिन्दू-नववर्षे गुडी-पड्वा-अवसरे विश्व-हिन्दू-परिषदः कार्यकर्तृभिः गुरुवासरे प्रातःकाले मध्यप्रदेशस्य राजगढ-जनपदे पीपल-चतुष्पथे, ब्यावरास्थले शिविरं संस्थाप्य सामाजिक-सद्भावस्य आरोग्यस्य च कामनया विशेष-कार्यक्रमः आयोजितः।

परम्परानुसारं पीपल-चतुष्पथे शिविराणि स्थापितानि, यत्र मन्दिर-दर्शनाय आगच्छन्तः श्रद्धालवः कार्यार्थं निर्गच्छन्तः नागरिकाश्च निम्ब-मिश्री-वितरणं प्राप्नुवन्ति स्म। कार्यकर्तारः जनान् मंगल-तिलकं विधाय नववर्षस्य हार्दिक-शुभाशयाः अपि दत्तवन्तः।

परम्परया पीपल-चतुष्पथः अनेकेभ्यः वर्षेभ्यः अस्य आयोजनस्य केन्द्रं वर्तते, यत्र समाजजनाः उत्साहपूर्वकं सहभागित्वा शुभारम्भस्य आशीर्वादं गृह्णन्ति। अस्मिन् अवसरे जनपदस्य सारंगपुरः, तलेन, सुठालिया इत्यादिषु प्रखण्डेषु मुख्य-चतुष्पथेषु महा-आरार्तिक्याः आयोजनं कृतम्, यत्र बहवः श्रद्धालवः उपस्थिताः आसन्।

गुड़ी-पड्वा-अवसरे आयोजितः अयं सेवा-सांस्कृतिक-कार्यक्रमः जनानां मध्ये उत्साहं, सौहार्दं, नववर्षं प्रति सकारात्मक-ऊर्जां च प्रसारयति।

अस्मिन् अवसरे उपस्थिताः – विभाग-मन्त्री अशोकगुप्तः, विभाग-सेवा-प्रमुखः अशोक-अग्रवालः, जनपद-मन्त्री हर्षतोमरः, जनपद-प्रचार-प्रसार-प्रमुखः मनोजपाठकः, जनपद-सहसंयोजकः शैलेन्द्रसिंहः नरुका, जनपद-मिलन-प्रमुखः बंटी कुशवाहः, प्रखण्ड-अध्यक्षः देवराजः दांगी, प्रखण्ड-मन्त्री नरेन्द्रः लववंशी, प्रखण्ड-उपाध्यक्षः संजयः शिवहरे, प्रखण्ड-सहमन्त्री शैलू प्रजापतिः, प्रखण्ड-संयोजकः प्रशान्तः गवली, सोनू धनोलिया, इशिका अहिरवारः, हर्षितः अहिरवारः इत्यादयः अन्ये कार्यकर्तारः च।

हिन्दुस्थान समाचार / अंशु गुप्ता