कृषिमन्त्रिणा नेतामेन धोन्धा–प्रतापपुरे कृषि–महाविद्यालयस्य भूमि–पूजनं कृतम्
सूरजपुरनगरम्, ०२ मार्चमासः (हि.स.)। छत्तीसगढ–राज्यस्य कृषिमन्त्री रामविचार–नेतामः अद्य सोमवासरे सूरजपुर–जनपदे धोन्धा–प्रतापपुरे बहुप्रतीक्षितस्य कृषि–महाविद्यालयस्य विधिवत् भूमि–पूजनं सम्पन्नं कृतवान्। तेन अद्य ८८९.५३ लक्ष–रूप्यक–व्ययेन निर्मीयमाणस
कृषि मंत्री नेताम  कृषि महाविद्यालय का भूमि पूजन करते हुए


सूरजपुरनगरम्, ०२ मार्चमासः (हि.स.)। छत्तीसगढ–राज्यस्य कृषिमन्त्री रामविचार–नेतामः अद्य सोमवासरे सूरजपुर–जनपदे धोन्धा–प्रतापपुरे बहुप्रतीक्षितस्य कृषि–महाविद्यालयस्य विधिवत् भूमि–पूजनं सम्पन्नं कृतवान्। तेन अद्य ८८९.५३ लक्ष–रूप्यक–व्ययेन निर्मीयमाणस्य प्रतापपुर (धोन्धा) स्थितस्य कृषि–महाविद्यालय–भवनस्य, तथा च ६०२.१० लक्ष–रूप्यक–व्ययेन निर्मीयमानयोः बालक–कन्या–छात्रावास–भवनयोः (प्रतापपुर–धोन्धा) भूमि–पूजनं कृतम्।

अस्मिन् अवसरे प्रतापपुर–विधायिका शकुन्तला–सिंह–पोर्टे, जनपद–पञ्चायत–अध्यक्षः चन्द्रमणि–देवपाल–सिंह–पैंकरा, जनपद–पञ्चायत–सदस्यः श्रीलवकेश–पैंकरा, क्षेत्रस्य कृषकाः, जनप्रतिनिधयः तथा च बहुसंख्यकाः ग्राम्यजनाः उपस्थिताः आसन्।

भूमि–पूजनानन्तरं उपस्थितं जनसमूहं सम्बोधयन् कृषिमन्त्री नेतामः अवदत्— एषः दिवसः धोन्धा–प्रतापपुरस्य समग्रस्य क्षेत्रस्य च कृते ऐतिहासिकः अस्ति। अस्य पावनायां भूमौ कृषि–महाविद्यालयस्य स्थापनया कृषक–बन्धूनां अग्रिम–वंशानां कृते उच्च–कृषि–शिक्षायाः नवानि द्वाराणि उद्घाटितानि भविष्यन्ति।

कृषिमन्त्री रामविचार–नेतामः अपि अवदत् यत् राज्य–सर्वकारः कृषकान् सशक्तीकर्तुं सदैव प्रतिबद्ध: अस्ति। अस्य महाविद्यालयस्य माध्यमेन क्षेत्रस्य यूनां कृते आधुनिक–कृषि–तन्त्राणि, उन्नत–कृषि–पद्धतयः, तथा च कृषि–विज्ञानस्य उच्चस्तरीया शिक्षा अधुना स्वस्मिन् एव गृह–जनपदे उपलब्धा भविष्यति। तेन अपि आश्वासनं दत्तं यत् महाविद्यालय–निर्माण–कार्यं शीघ्रं नियत–काल–सीमायाम् एव पूर्णं कारयिष्यते।

अस्मिन् एव अवसरे प्रतापपुर–विधायिका शकुन्तला–सिंह–पोर्टे स्वीय–उद्बोधने अवदत् यत् कृषि–महाविद्यालयस्य स्थापना तस्याः क्षेत्रस्य कृते स्वप्न–साकारवत् अस्ति। सा अवदत् यत् अस्य महाविद्यालयस्य कृते कृताः प्रयासाः अद्य सफलाः अभवन्, यस्मिन् कृषिमन्त्री रामविचार–नेतामस्य महत्त्वपूर्णं योगदानं वर्तते। सा ग्रामवासिभ्यः कृषक–बन्धुभ्यश्च अवदत् यत् अधुना तेषां बालकानां उच्च–कृषि–शिक्षायै दूरेषु महानगरेषु भ्रमणं न आवश्यकं भविष्यति। सा अपि अवदत् यत् एषः महाविद्यालयः केवलं शिक्षायाः केन्द्रं न भविष्यति, अपि तु क्षेत्रस्य कृषि–विकासस्य यूनां उज्ज्वल–भविष्यस्य च आधारं स्थापयिष्यति। सा मुख्यमन्त्रीं विष्णु–देव–सायं कृषिमन्त्रीं रामविचार–नेतामं च हृदयतः आभारं व्यक्तवती, तथा च एतस्य ऐतिहासिकस्य उपलब्धेः कृते क्षेत्रवासिनः अभिनन्दितवती।

अस्य कृषि–महाविद्यालयस्य स्थापनया क्षेत्रस्य यूनां कृते कृषि–विज्ञानम्, उद्यानिकी, पशुपालनम्, ग्राम्य–प्रबन्धनं च इत्यादिषु विषयेषु उच्च–शिक्षायाः अवसरः लभ्यते। अधुना दूरवर्तिनां ग्राम्य–विद्यार्थिनां महानगरान् प्रति गमनं न आवश्यकं भविष्यति, ते च स्वक्षेत्रे एव गुणवत्तायुक्तां कृषि–शिक्षां प्राप्तुं समर्थाः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता