पुण्यतिथौ संगीतश्री प्रभात शर्मणे मुख्यमंत्री अकरोत् नमनम्
गुवाहाटी, 02 मार्चमासः, (हि.स.)। असम-राज्यस्य मुख्यमंत्री हिमंत बिस्व सरमा लोकसंगीत-साधकं, प्रख्यातं वंशीवादकं तथा ‘संगीतश्री’-सम्मानितं पंडित प्रभात शर्मा इत्यस्य पुण्यतिथौ श्रद्धया नमनं कृतवान्। मुख्यमन्त्री स्व-सन्देशे उक्तवान् यत् प्रभात-शर्
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 02 मार्चमासः, (हि.स.)।

असम-राज्यस्य मुख्यमंत्री हिमंत बिस्व सरमा लोकसंगीत-साधकं, प्रख्यातं वंशीवादकं तथा ‘संगीतश्री’-सम्मानितं पंडित प्रभात शर्मा इत्यस्य पुण्यतिथौ श्रद्धया नमनं कृतवान्।

मुख्यमन्त्री स्व-सन्देशे उक्तवान् यत् प्रभात-शर्मणा ‘पाञ्चजन्य’ तथा ‘देवगन्धार’ इत्यादि-लोकसंगीत-समूहयोः माध्यमेन राष्ट्रिय-अन्ताराष्ट्रिय-स्तरे असम-प्रदेशस्य नाम गौरवान्वितं कृतम्। तस्य मधुरा वंशी-निनादः लोकधुनयश्च राज्यस्य सांस्कृतिक-परिचयं नूतन-उच्चतां नीतवन्तः तथा संगीत-क्षेत्रे अमार्ज्यं चिह्नं स्थापितवन्तः।

डॉ सरमा अवदत् यत् रंगमञ्चात् आरभ्य चलचित्र-क्षेत्रपर्यन्तं तस्य समृद्ध-योगदानं असमस्य संगीत-जगत् समृद्धं कृतवान्। तस्य जीवनं साधना च नव-पीढ्याः कलाकाराणां कृते प्रेरणास्रोतः अस्ति, असम-प्रदेशः तं सर्वदा श्रद्धया संस्मरिष्यति।

हिन्दुस्थान समाचार