मुख्यमंत्री सैदपुरबाकरगंजयोर्भूमिगता नलिका, मार्गनिर्माण कार्यस्य अकरोत् निरीक्षणम्
पटना, 02 मार्चमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः सैदपुरभूमिगतनालनिर्माणकार्यस्य सह मार्गनिर्माणकार्यस्य निरीक्षणं कृतवान्। अस्मिन्नवसरे पटना प्रमण्डलस्य आयुक्तः अनिमेषपरासरः तथा जिलाधिकारी डॉ त्यागराजन एसएम मुख्यमन्त्रिणे अस्य योजनायाः विषये व
मुख्यमंत्री ने सैदपुर तथा बाकरगंज भूमिगत नाला, सड़क निर्माण कार्य का किया निरीक्षण


पटना, 02 मार्चमासः (हि.स.)।

मुख्यमन्त्री नीतीशकुमारः सैदपुरभूमिगतनालनिर्माणकार्यस्य सह मार्गनिर्माणकार्यस्य निरीक्षणं कृतवान्। अस्मिन्नवसरे पटना प्रमण्डलस्य आयुक्तः अनिमेषपरासरः तथा जिलाधिकारी डॉ त्यागराजन एसएम मुख्यमन्त्रिणे अस्य योजनायाः विषये विस्तृतां जानकारीम् अददाताम्।

निरीक्षणसमये मुख्यमन्त्री उक्तवान् यत् वयं पूर्वमपि अत्र आगत्य अनेकवारं निरीक्षणं कृतवन्तः स्म। सः अधिकाऱिणः निर्देशितवान् यत् सैदपुरनालस्य उत्तमरीत्या जीर्णोद्धारः क्रियताम् तथा तस्य उपरि चतुर्लेनमार्गस्य निर्माणकार्यं शीघ्रं सम्पन्नं भवतु। सः उक्तवान् यत् एषा योजना अतीव उत्तमा अस्ति। अस्याः सम्पन्नतया सैदपुर राजेन्द्रनगर मुसल्लहपुरहाट गायघाट पहाड़ी क्षेत्रेषु यातायातसमस्या निवारिता भविष्यति तथा न्यू पटना बाइपास संयोगाय जनानां कृते वैकल्पिकमार्गस्य सुविधा उपलब्धा भविष्यति।

चतुर्लेनमार्गस्य निर्माणेन नगरवासिनां कृते सुगमावागमनसुविधा भविष्यति तथा नगरम् अपि अधिकं सुन्दरं दृश्यते। ज्ञातव्यं यत् पटना नगरस्य नव ड्रेनेज पम्पिंग स्टेशन तथा एकः सिवरेज ट्रीटमेंट प्लाण्ट एसटीपी इत्यस्य जलप्रवाहः सैदपुरनालेन भवति। नगरविकासविभागान्तर्गत बिहार शहरी आधारभूत संरचना विकास निगम लिमिटेड बुडको द्वारा द्विशत्पञ्चान्नवतिः कोटि एकाशीतिः लक्षरूप्यकव्ययेन् सैदपुरनाले पहाड़ीप्रदेशपर्यन्तं भूमिगतनालसहितमार्गनिर्माणकार्यं क्रियते। अस्य नालस्य दीर्घता पञ्चदशांशषट् किलोमीटर अर्थात् ५।६१ किलोमीटर अस्ति।

अनन्तरं मुख्यमन्त्री बाकरगञ्जभूमिगतनालनिर्माणकार्यस्य सह मार्गनिर्माणकार्यस्य अपि निरीक्षणं कृतवान्। तत्र सः अधिकाऱिणः निर्देशितवान् यत् अस्य निर्माणकार्यं उत्तमरीत्या शीघ्रं सम्पन्नं क्रियताम्। अस्य सम्पन्नतया अस्मिन् क्षेत्रे जलनिकासव्यवस्था सुदृढा भविष्यति तथा जलजमावसमस्या न भविष्यति। नालस्य उपरि मार्गनिर्माणेन आवागमनं सुलभं भविष्यति।

बाकरगञ्जनालः पटना नगरस्य आन्तरिकभागे स्थितः प्रमुखः जलनिकासमार्गः अस्ति यः उमा सिनेमा हॉल प्रदेशात् आरभ्य अंटा घाट पर्यन्तं गङ्गानद्याः दिशं गच्छति। एषः नालः नगरस्य अनेकेषु भागेषु आपणक्षेत्रेषु आवासीयप्रदेशेषु च मध्ये गच्छति। वर्षासमये जलनिकासाय एषः अतीव महत्त्वपूर्णः मार्गः अस्ति।

अस्य परियोजनायाः अन्तर्गतं प्रायः एकदशांशचत्वारि किलोमीटर अर्थात् १।४ किलोमीटर दीर्घा मार्गः नालस्य उपरि निर्मीयते, येन यातायातः तथा जलनिकासव्यवस्था उभयं सुदृढं भविष्यति।

अस्मिन् निरीक्षणे मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, सचिवः कुमाररविः, सचिवः डॉ चन्द्रशेखरसिंह, आयुक्तः अनिमेषपरासरः, जिलाधिकारी डॉ त्यागराजन एसएम, वरीय पुलिस अधीक्षकः कार्तिकेय के शर्मा तथा अन्ये अपि वरिष्ठाधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार