महादेवी वर्मा-महाभागायाः प्रतिमायां जिलाधिकारिणा माल्यार्पणं कृत्वा तस्याः जयंती श्रद्धापूर्वकं समाचरिता
फर्रुखाबादनगरम्, ०२ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबाद–जनपदे प्रतिष्ठितायाः साहित्यिक–संस्थायाः अभिव्यंजना इत्यस्य तत्वावधानं कृत्वा छायावादी–युगस्य प्रमुखाया कवयित्र्याः महादेवी वर्मा–महाभागायाः जयंती–समारोहः आयोजितः। फाल्गुनी–पूर्णिमाया
माल्यार्पण करते जिलाधिकारी


फर्रुखाबादनगरम्, ०२ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबाद–जनपदे प्रतिष्ठितायाः साहित्यिक–संस्थायाः अभिव्यंजना इत्यस्य तत्वावधानं कृत्वा छायावादी–युगस्य प्रमुखाया कवयित्र्याः महादेवी वर्मा–महाभागायाः जयंती–समारोहः आयोजितः। फाल्गुनी–पूर्णिमायाः पावनावसरे सोमवासरे प्रातः ९ वादने रेल–मार्गस्थिते तस्याः प्रतिमा–स्थले माल्यार्पणं श्रद्धाञ्जलि–कार्यक्रमश्च सम्पन्नः।

कार्यक्रमस्य संयोजकः सञ्जय–गर्गः तथा संस्थायाः समन्वयकः भूपेन्द्र–प्रताप–सिंहः इत्येतयोः आमन्त्रणेन जिलाधिकारी आशुतोष–कुमार–द्विवेदी समारोहस्थले उपस्थितः अभवत्। तेन सह नगरस्य जनपदस्य च अनेके साहित्यकाराः, कवयः, शिक्षाविदः, साहित्य–प्रेमिणश्च बहुसंख्यया सहभागितां कृतवन्तः। उपस्थितैः साहित्यकारैः महादेवी–वर्मा–महाभागायाः प्रतिमायां पुष्पाञ्जलिं समर्प्य श्रद्धासुमनानि अर्पितानि।

संस्थाया: अभिव्यंजनायाः पक्षत: प्रतिमा–समीपे स्थितस्य ट्रान्सफार्मर-इत्यस्य स्थानान्तरणाय अनेकेन साहित्यकारैः हस्ताक्षरितं ज्ञापनं जनपदाधिकाराय समर्पितम्। अस्मिन् अवसरे जनपदाधिकारी महादेवी–वर्मा–महाभागां नत्वा अवदत् यत्— अद्य सम्पूर्णे विश्वे फर्रुखाबाद–नगरं तस्याः नाम्ना विशेषतया परिचितम् अस्ति। संस्थायाः समन्वयकः भूपेन्द्र–प्रताप–सिंहः अवदत् यत्— अभिव्यंजना संस्थावर्षपर्यन्तं हिन्दी–भाषायाः सम्मान–वर्धनाय विविधान् साहित्यिक–कार्यक्रमान् आयोजयति।

कार्यक्रमे महेश–पाल–सिंहः, सुरेन्द्र–पाण्डेयः, बृजकिशोर–सिंहः, रामशंकर–मिश्र–अबोधः, भारतीय–मिश्रः, रविन्द्र–भदोरिया, सञ्जय–गर्गः, निमिष–टण्डनः, नलिन–श्रीवास्तवः, सदानन्द–शुक्लः, अखिलेश–अग्निहोत्री, अनुराग–पाण्डेयः, राजेश–निरालः, राजेश–हजेला इत्यादयः अनेके साहित्यकाराः उपस्थिताः आसन्।

उल्लेखनीयं यत्— सन् १९०७ तमे वर्षे महादेवी–वर्मा–महाभागायाः जन्म फर्रुखाबाद–जनपदस्य गणेश–प्रसाद–मोहल्ले अभवत्। तस्याः बाल्यकालः मध्यप्रदेशे व्यतीर्णः। तस्याः शिक्षणं अध्यापन–कार्यं च इलाहाबाद–नगरे (वर्तमान–प्रयागराजे) सम्पन्नम्, तथापि जन्मभूमिना सह तस्याः प्रगाढः आत्मीयः सम्बन्धः सदैव स्थितः। अनेन कारणेन नगरस्य साहित्यकाराः तां स्व–प्रेरणा–स्रोतः मन्यन्ते तथा तस्याः जयंतीं साहित्यिक–उत्सव–रूपेण समाचरन्ति।

महादेवी–वर्मा–महाभागा हिन्दी–साहित्यस्य छायावादी–युगस्य प्रमुख–स्तम्भा इति मान्यते। तस्याः रचनासु करुणा, संवेदना, आध्यात्मिकता, नारी–अस्मितायाः सशक्ता अभिव्यक्तिश्च स्पष्टतया दृश्यते। सा केवलं कवयित्री न, अपि तु शिक्षाविदा, समाजसेविका, साहित्यिक–चेतनायाः अग्रदूता च आसीत्। हिन्दी–साहित्यं वैश्विक–स्तरे प्रतिष्ठापयितुं तस्याः योगदानम् अविस्मरणीयम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता