Enter your Email Address to subscribe to our newsletters

इंदौरम्, 02 मार्चमासः (हि.स.)।
मध्यप्रदेश-राज्यस्य इन्दौर-जिलायाः यूनां रोजगार-सुविधार्थं “युवा-संगम” कार्यक्रमस्य अन्तर्गत अद्य सोमवासरे प्रातः 10 वादनात् अपराह्ण 03 वादनपर्यन्तं जिला-रोजगार-कार्यालय-परिसरे (जिला-व्यापार-उद्योग-केन्द्रस्य समीपे) 10 पोलोग्राउंड् इन्दौर-नगरे रोजगार-मेलकः आयोजितः भवति।
रोजगार-उपसंचालकः पी एस मण्डलोई अवदत् यत् अस्मिन् रोजगार-मेलके युवभ्यः करियर-निर्माणस्य सुवर्ण-अवसरः प्रदास्यते। स्वकीय-व्यवसाय-आरम्भार्थं विविध-योजनानां अन्तर्गत ऋण-प्रक्रिया तथा आवश्यक-मार्गदर्शनम् अपि उपलब्धं भविष्यति।
“युवा-संगम” कार्यक्रमे इनोफ्लेक्स्, टोरस् बीपीओ, तीसवा टेक्नोलॉजीज सर्विसेज्, जस्ट डायल्, शेफाली बिजनेस सोलूशन, मोज़ेक वाक्स्किल्ल प्राइवेट लिमिटेड् इत्यादयः प्रतिष्ठित-कम्पन्यः 250 अधिक-रिक्त-पदानां पूर्त्यर्थम् उपस्थिताः भविष्यन्ति। एतेषु संस्थासु एच आर, सेल्स-एक्जीक्यूटिव्, टेली-कॉलर्, ऑपरेटर्, टीम-लीडर्, बैक-ऑफिस्, हेल्पर् इत्यादिषु विविधेषु पदेषु अभ्यर्थिनां चयनं करिष्यते। कम्पनी-प्रतिनिधयः अभ्यर्थिनां साक्षात्कारं कृत्वा आकर्षक-वेतने प्रारम्भिक-चयनं विधास्यन्ति।
अस्मिन् मेलके 18 वर्षात् 40 वर्षपर्यन्त-वयस्काः ये अभ्यर्थिनः उच्च-माध्यमिक-स्तरात् स्नातकोत्तर-स्तरपर्यन्तं शिक्षां प्राप्तवन्तः सन्ति, तथा आई टी आई डिप्लोमा इत्यादि तकनीकी-योग्यता-युक्ताः युवानः अपि सहभागं कर्तुं शक्नुवन्ति।
रोजगार-मेलापके सहभागिनः सर्वे अभ्यर्थिनः स्व-समस्त-शैक्षणिक-प्रमाणपत्राणां छायाप्रतयः, जीवन-वृत्तान्तः बायोडाटा, आधार-कार्डस्य प्रति तथा अन्य-आवश्यक-प्रपत्राणां प्रतयः सह आनयन्तु।
---------------
हिन्दुस्थान समाचार