Enter your Email Address to subscribe to our newsletters


जयपुरनगरम्, ०२ मार्चमास: (हि.स.)।जयपुरनगरस्य श्री–गोविन्ददेवजी–मन्दिरे सोमवासरे होली–उत्सवः श्रद्धया उल्लासेन च सम्यक् आचरितः। मन्दिर–प्राङ्गणे विशेषाः प्रदर्शिन्य: अलङ्कृताः, तथा च भगवतो: राधा–गोविन्दयोः सुसज्जित–प्रतिमयोः पुरतः भक्तैः वर्णोत्सवस्य आनन्दः अनुभूतः।
उत्सवस्य आरम्भः ठाकुरजी-इत्येतेभ्यः पुष्प–होलिका–अर्पणेन कृतः। महन्तः अञ्जन–गोस्वामी राजभोग-प्रदर्शिन्यां ठाकुर–श्रीजीं गुलालरागं समर्प्य आरार्तिकीं कृतवान्। ततः परं भक्तैः चङ्ग–वाद्यस्य नादेन परम्परागत–भजनैः सह होलिका क्रीडिता। पुजारिभिः पिचकारिकाभिः जल–वृष्टिः कृता, श्रद्धालूनां उपरि च नानावर्णीयः गुलालराग: क्षिप्तः। पुष्प–वृष्ट्या सह सम्पूर्णं मन्दिर–परिसरं वर्णैः परिपूर्णम् अभवत्।
महती संख्या स्त्री–पुरुषाः, युवतयः, बालकाः च दर्शनार्थं आगताः। श्रद्धालवः करान् ऊर्ध्वं कृत्वा जयघोषान् अकार्षुः, भगवन्तं होली–शुभाशयैः अभिनन्दितवन्तः। राधा–गोविन्दाभ्यां सह होली–क्रीडनाय आगतेभ्यः भक्तेभ्यः प्रसादोऽपि वितरितः।
जनसमूहं दृष्ट्वा दर्शन–व्यवस्था देवोत्थानी–एकादशी–दीपावली–पर्वणो: सदृशी कृता। सर्वेषां श्रद्धालूनां प्रवेशः जलेब–चतुष्पथतः कृतः, निर्गमनं च जय–निवास–उद्यानस्य दिशि व्यवस्थापितम्। अपि च द्वाभ्यां पङ्क्तिभ्यां प्रवेश–व्यवस्था कृता। ये उपानत्–धारिणः आसन्, ते बहिः निर्मित–रैम्पमार्गेण दर्शनं कृतवन्तः; ये तु पादत्राण–रहिताः आसन्, ते मन्दिर–शिविरे प्रवेशं कृत्वा दर्शनं कृतवन्तः।
मन्दिर–प्रशासनं श्रद्धालून् आह्वानं कृतवान् यत् ते मूल्यवानानि वस्तूनि, स्यूता:, गुरु–आभरणानि वा न धारयेयुः, जल–पात्रं च सह आनयेयुः। हृदय–रोग:, मधुमेह:, रक्त–प्रवाह:, श्वास–कष्ट–पीडितेभ्यः अपि जन–सम्मर्दं दृष्ट्वा विशेष–सावधानता आचरितव्या इति विनयेन उक्तम्।
हिन्दुस्थान समाचार / Dheeraj Maithani