Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ०२ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी–जनपदे कर्मचारी–राज्य–बीमा–निगमस्य (ईएसआईसी) पञ्चसप्ततितम–स्थापन–वर्षग्रन्थे: उपलक्ष्ये सोमवासरे चिकित्सा–महाविद्यालये आयुष–शिविरम् आयोजितम्। आयुष–शिविरे राजघाटस्थिते कृष्णमूर्ति–फाउण्डेशनमध्ये कार्यरतकर्मचारिणां कृते स्वास्थ्य–सम्बद्धा सूचना प्रदत्ता, औषधीनां वितरणं च कृतम्।
कर्मचारिणां स्वास्थ्य–संरक्षणार्थं दैनन्दिन–जीवने योगस्य अंगीकरणाय आह्वानमपि कृतम्। अस्मिन् अवसरे एव योग–प्रशिक्षकेण योगस्य लाभानां विषये विस्तरेण सूचना प्रदत्ता। प्रशिक्षकेण उक्तं यत् यदि दिवसस्य आरम्भः अल्पेन व्यायामेन क्रियते तर्हि रक्तस्य शुद्धतया शरीरं स्फूर्तिमान् भवति। योगः जीवने रोगाणां आगमनं निवारयति; अतः तं स्वदिनचर्यायां सम्मिलितं कुर्यु:।
हिन्दुस्थान समाचार / अंशु गुप्ता