Enter your Email Address to subscribe to our newsletters


कानपुरनगरम्, ०२ मार्चमासः (हि.स.)। होली-पर्वणि सांस्कृतिक-अभिव्यक्तेः अनन्यं दृष्टान्तं प्रस्तूयन् उत्तरप्रदेश-राज्यस्य कानपुर-नगरे लाटूश-रोड-क्षेत्रे सन् १९६२ तः प्रवर्तमाना परम्परा अद्यापि अनुवर्त्यते। अस्यां परम्परायां प्रतिवर्षं सामाजिक-सांस्कृतिक-समकालीन-विषयान् आधारं कृत्वा विशेष-विषये होलिकादहनस्य सज्जा क्रियते। एषा विशिष्टा परम्परा क्षेत्राय पृथग्विधं परिचयं दत्तवती, अत एव होली-अवसरे देशस्य नानाभागेभ्यः जनाः एतां प्रस्तुतिं द्रष्टुं आगच्छन्ति।
अस्मिन् वर्षे ‘नुक्कड़ सोसायटी’ इत्यस्य आयोजनेन “टैरिफ-वार” इति विषयं केन्द्रे स्थापयित्वा होलिकायाः प्राङ्गणं सुसज्जीकृतम्। आयोजन-स्थले नरेन्द्रमोदीं चलचित्र-चरित्रस्य पुष्पा इत्यस्य प्रतीकात्मक-रूपेण दर्शितम्। स: भगव-वस्त्रधारी, दक्षिणहस्तं श्मश्रुषू स्थापयित्वा आत्मविश्वासपूर्ण-मुद्रायां निरूपितः। अस्याः रचनायाः माध्यमेन आयोजकैः एषः सन्देशः दत्तः यत्—वैश्विक-बलानां आर्थिक-समस्यानां च मध्ये अपि भारतं स्व-राष्ट्रीय-हितेषु दृढं स्थापयित्वा अविचलित: तिष्ठति।
प्राङ्गणे च डोनाल्डट्रंपस्य प्रतीकात्मकः प्रतिमा अपि स्थापिता, यः वैश्विक-व्यापार-नीतिः तथा टैरिफ-विवादानां सन्दर्भे निरूपितः। आयोजकाः अवदन् यत्— एषा प्रस्तुतिर्न कस्यचित् व्यक्तिविशेषस्य आलोचना, अपि तु समकालीन-अन्ताराष्ट्रिय-परिस्थितिनां सृजनात्मकं निरूपणमेव।
आयोजन-मण्डलस्य सदस्यः उमेश-कश्यपः सोमवासरे अवदत्—वैश्विक-स्तरे टैरिफ-व्यापार-बलै: सम्बन्धिताः ये स्थितयः उत्पन्नाः, ताः सामान्य-जनानां समीपं सरल-भाषया नेतुं एष: विषय: स्वीकृत:। तेन उक्तं यत्—प्रधानमन्त्री नरेन्द्र-मोदिने ‘पुष्पा’ इति प्रतीकात्मक-उपाधिः अत: दत्ता, यत् देश-हित-विषये भारतस्य नेतृत्वं बलेषु न नमति इति सन्देशः प्रसार्यते।
स्थानीय-जनानां मते लाटूश-मार्ग-क्षेत्रस्य एषा परम्परा केवलं होलिकादहन-समारोहः न, अपि तु सामाजिक-विमर्शस्य सृजनात्मकं मञ्चं भूत्वा विकसिताभवत्। बहुसंख्यकाः जनाः आयोजन-स्थलं प्रति आगच्छन्ति; सुरक्षा-व्यवस्थायै स्थानीय-प्रशासनद्वारा आवश्यकाः उपायाः अपि कृताः।
हिन्दुस्थान समाचार / अंशु गुप्ता