सुल्तानपुरस्य रजनीबाला हस्तशिल्प–कौशलात् स्वकीयं विशिष्टं परिचयं निर्मितवती
लखनऊनगरम्, ०२ मार्चमासः (हि.स.)। उत्तरप्रदेशे सामाजिक–परिवर्तनस्य नूतन–सम्भावनानां च कालः सततं प्रवर्तते। महिलाः स्व–संकल्पेन परिश्रमेण च आत्मनिर्भरस्य विकसित–उत्तरप्रदेशस्य दृढां आधारशिलां निर्मान्ति। सुलतानपुर–जनपदस्य कुड़वार–विकासखण्डस्य हरखपुर–
रजनी बाला अपने मूंज उत्पादों के साथ


लखनऊनगरम्, ०२ मार्चमासः (हि.स.)। उत्तरप्रदेशे सामाजिक–परिवर्तनस्य नूतन–सम्भावनानां च कालः सततं प्रवर्तते। महिलाः स्व–संकल्पेन परिश्रमेण च आत्मनिर्भरस्य विकसित–उत्तरप्रदेशस्य दृढां आधारशिलां निर्मान्ति। सुलतानपुर–जनपदस्य कुड़वार–विकासखण्डस्य हरखपुर–ग्राम–निवासिनी रजनी–बाला अस्याः सशक्तं उदाहरणम् अस्ति। सा मूञ्ज–हस्तशिल्पे सिकहुला, भउका, दौरी, डोलची, कप–इत्यादीनां कलाकृतीनां संवर्धनं कृत्वा स्वकीयं पृथग्विधं परिचयं प्राप्नोति।

रजनी–बाला द्वादश–कक्षापर्यन्तं शिक्षां प्राप्तवती। सा कथयति यत् मूञ्ज–शिल्प–कौशलं तस्याः मातुः सकाशात् परम्परया प्राप्तम्। तस्याः माता अपि मूञ्ज–उत्पादानां निर्माणं कुर्वन्ती आसीत्। बाल्यकालात् एव रजनी–बालायै अस्य कार्यस्य पारिवारिकं वातावरणं व्यावहारिकं अनुभवश्च प्राप्तः। तस्याः शिक्षाया: लगनाया: च फलस्वरूपेण अद्य सा विविध–प्रकारकान् मूञ्ज–उत्पादान् निर्माय आत्मनिर्भरतां प्राप्तवती।तस्याः पतिः दिल्ली–नगरे एका निजी–निर्माण्यां वाहन–चालन–कार्ये नियोजितः अस्ति, यः तस्याः कार्ये पूर्णं सहयोगं ददाति। तयोः द्वौ सन्तानौ स्तः— पुत्रः लखनऊ–नगरे चिकित्साशास्त्र–अध्ययनं करोति, पुत्री च सुलतानपुर–स्थिते विद्यालये अध्ययनं करोति।

मूञ्ज–उत्पादानां मूल्यं पृथक् पृथक् भवति, किन्तु लाभ–दृष्ट्या एषः व्यवसायः अत्यन्तं सुदृढः अस्ति। रजनी–बाला कथयति यत् प्रति-उत्पादे साधारणतया पञ्चाशत्–प्रतिशतपर्यन्तं शुद्ध–लाभः भवति। यदि कस्यचित् उत्पादस्य निर्माणे १०० रूप्यकाणां व्ययः भवति, तर्हि तस्य विपण–मूल्यं प्रायः १५० रूप्यकाणि भवन्ति। तस्याः व्यवसायस्य कीर्तिः इदानीं अन्येषु राज्येषु अपि प्रसारं गता। अद्यावधि तस्याः सर्वाधिकं लाभप्रदं आदेशं राजस्थान–राज्यात् प्राप्तम्, यस्य पूर्तये सा प्रायः शताधिक–महिलाभ्यः रोजगार–अवसरं दत्तवती। एवं रजनी–बाला न केवलं स्वयम् सशक्ता भवति, अपि तु क्षेत्रस्य अन्याः महिलाः अपि आजीविकया संयोजयित्वा सामूहिक–आत्मनिर्भरतायाः आदर्शं स्थापयति।

रजनी–बालया उक्तं यत् मूञ्ज–उत्पादानां निर्माणे विपणने च जनपद–उद्योग–कार्यालयस्य महत्त्वपूर्णः सहयोगः प्राप्तः। विशेषतः जनपद–उपायुक्ताया: नेहा सिंह–महोदयाया: मार्गदर्शनेन प्रोत्साहनेन च तस्यै स्व–उत्पादान् व्यापक–मञ्चेषु स्थापयितुं अवसरः लब्धः। अस्य सहयोगस्य परिणामेन सा नोएडा–नगरे, सुलतानपुरे, लखनऊ–नगरे तथा समीपस्थेषु अन्येषु जनपदेषु अपि प्रदर्शिनी–स्थलेषु स्व–उत्पादानां सफलं विक्रयणं कृतवती।

राज्य–सर्वकारस्य प्रवक्तुः अनुसारं, प्रदेश–सर्वकारस्य विविधाः योजनाः महिलाः यूनां च स्वरोजगारे संयोजयित्वा तेषां आर्थिक–स्थितिं सुदृढां कुर्वन्ति। एतासां योजनानां प्रभावेण सुलतानपुर–सहितेषु अनेक–जनपदेषु सकारात्मकं परिवर्तनं स्पष्टतया दृश्यते। ये युवान: कदाचित् बेरोजगारी–समस्यया पीडिताः आसन्, ते अद्य आत्मविश्वासेन स्व–स्वप्नानां साकारं कुर्वन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता