‘खोलो किवाड़ चलो मठ इति आभ्यंतराद् गूंजितः एम्फीथियेटर इति
देहरादूनम्, 02 मार्चमासः (हि.स.)। दून पुस्तकालय एवं शोध केन्द्रस्य एम्फीथियेटर-मण्डपे सोमवासरे होलिकोत्सवस्य उपलक्ष्ये होली-मेलन-समारोहः आयोजितः। कार्यक्रमस्य आयोजनं संगीतांजली शास्त्रीय संगीत समिति इत्यस्याः संस्थायाः पक्षतः कृतम्, यस्मिन् लोक-सं
दून पुस्तकालय एवं शोध केन्द्र के एम्फीथियेटर में होली के उपलक्ष्य में होली मिलन समारोह।


देहरादूनम्, 02 मार्चमासः (हि.स.)। दून पुस्तकालय एवं शोध केन्द्रस्य एम्फीथियेटर-मण्डपे सोमवासरे होलिकोत्सवस्य उपलक्ष्ये होली-मेलन-समारोहः आयोजितः। कार्यक्रमस्य आयोजनं संगीतांजली शास्त्रीय संगीत समिति इत्यस्याः संस्थायाः पक्षतः कृतम्, यस्मिन् लोक-संगीतस्य शास्त्रीय-संगीतस्य च रंगारंग-प्रस्तुतयः श्रोतॄन् मन्त्र-मुग्धान् अकुर्वन्।

कार्यक्रमे आकाशवाणी-संस्थायाः टॉप-ग्रेड-सीतार-वादकः पण्डितः रॉबिन् कर्माकरस्य नेतृत्वे ग्रेडेड-कलाकाराः होली-गीत-नृत्यानां शोभनां प्रस्तुतीम् अकुर्वन्। कलाकारैः गढ़वाली, कुमाऊनी, रूहेलखण्डी, ब्रज, राजस्थानी-होली-गीतैः सांस्कृतिक-विविधतायाः सुन्दरः परिचयः प्रदर्शितः।

कार्यक्रमस्य शुभारम्भः “जय बोलो गिरिजा-नन्दन-की” इति लोकगीतस्य गायनेन अभवत्। ततः परं ‘हर फूलों से मथुरा छाई रही’, ‘आओ बृजराज खेले होली’, ‘खोलो किवाड़ चलो मठ भीतर’, ‘खोल दे माता खोल भवानी’, ‘मेरो रंगीलो देवर घर ऐ रो छो’, ‘मन मोहन नन्दकिशोर’, ‘झनकारो झनकारो’ तथा ‘होलिया में उड़े रे गुलाल’ इत्यादीनां लोकप्रिय-गीतानां प्रस्तुतीषु श्रोतारः आनन्देन नृत्यन्तः आसन्।

प्रस्तुतीकर्तृषु रेखा उनियाल, पुष्पा रावत, शिवानी कर्माकर, रेखा रावत, अमृता हालदार, सीमा बिष्ट, नीलम नेगी, लक्ष्मी मण्डल, सुनीता बहुगुणा, सरिता कुलाश्री, विजया शर्मा, मीनू नेगी तथा योगिता पांथरी इत्यादयः आसन्। संगत-कलाकाररूपेण सैकत मण्डल, संचारी पुरकायस्थः, आयुष्मान तथा प्रदीप शर्मा इत्येतेषां सहयोगः अभवत्। मंच-संचालनं शान्ति बिंजोला तथा रक्षा बौड़ाई इत्येताभ्यां कृतम्।

अस्मिन् अवसरे सामाजिक-इतिहासकारः डॉ. योगेश धस्माना उत्तराखण्डस्य होलिकोत्सवस्य सामाजिक-ऐतिहासिक-परिदृश्यं विवृण्वन् अवदत् यत् पर्वतीय-होली सामाजिक-समरसतां भ्रातृत्व-परम्परां च शताब्द्यः यावत् संरक्षति।

कार्यक्रमे शोध-केन्द्रस्य कार्यक्रम-अधिकारी चन्द्रशेखर तिवारी, पुस्तकालय-अध्यक्षः डॉ. डी.एम. पाण्डे सहिताः अनेके गणमान्य-जनाः, संगीतांजली-संस्थायाः पदाधिकारिणः, युवा-पाठकाः च बहुसंख्यया उपस्थिताः आसन्।

हिन्दुस्थान समाचार