वर्षस्य प्रथमं चन्द्रग्रहणम् : जयपुर–नगरे मन्दिरेषु दर्शन–व्यवस्थायाम् परिवर्तनं भविष्यति
जयपुरनगरम्, ०२ मार्चमासः (हि.स.)।वर्षस्य प्रथमं चन्द्रग्रहणं ३ मार्चमासे भविष्यति, यत् जयपुरनगरे केवलं प्रायः विंशति-निमेषान् एव दृश्यते। अत्र चन्द्रोदयः सायं ६ वादनसमये २२ निमेषेषु भविष्यति, चन्द्रग्रहणस्य च समापनं सायं ६ वादनसमये ४७ निमेषेषु भविष
2026 का पहला चंद्र ग्रहण 3 मार्च को: जयपुर में सूतक सुबह 9:44 बजे से


जयपुरनगरम्, ०२ मार्चमासः (हि.स.)।वर्षस्य प्रथमं चन्द्रग्रहणं ३ मार्चमासे भविष्यति, यत् जयपुरनगरे केवलं प्रायः विंशति-निमेषान् एव दृश्यते। अत्र चन्द्रोदयः सायं ६ वादनसमये २२ निमेषेषु भविष्यति, चन्द्रग्रहणस्य च समापनं सायं ६ वादनसमये ४७ निमेषेषु भविष्यति। अतः नगरवासिनः ग्रहणस्य अन्तिमं चरणमेव द्रष्टुं समर्थाः भविष्यन्ति।

एतत् ग्रहणं श्री–सत्यनारायण–पूर्णिमायां दिने पतति, तेनास्य धार्मिकं महत्त्वमपि अधिकं जातम्। गोविन्ददेवजी–मन्दिरस्य सेवाधिकारी मानस–गोस्वामी अवदत् यत् भारतीय–समयानुसारं ग्रहणं अपराह्णे ३ वादनसमये २१ निमेषेभ्यः आरभ्य सायं ६ वादनसमये ४७ निमेषपर्यन्तं भविष्यति, यस्य अवधिः चतुर्घण्टा षड्विंशतिः निमेषाः च भविष्यन्ति। देशस्य अनेकभागेषु ‘रक्त–चन्द्र:’ (ब्लड मून) इति दृश्यं द्रष्टुं शक्यते। किन्तु जयपुरनगरे चन्द्रोदयस्य विलम्बात् सम्पूर्णं चरणं न दृश्यते।

मानस–गोस्वामीना उक्तं यत् चन्द्रग्रहणस्य सूतकं ग्रहण–आरम्भात् नवघण्टाभ्यः पूर्वमेव प्रवर्तते। एतेन गणनानुसारेण ३ मार्चमासे प्रातः प्रायः ६ वादनसमये ५५ निमेषेभ्यः सूतकः प्रभाव: भविष्यति। सूतकस्य आरम्भेण सह अधिकांश–मन्दिराणां कपाटाः निरुद्धा: क्रियन्ते। अस्मिन् काले पूजा–पाठः, मूर्ति–स्पर्शः तथा च भोजनं वर्जितं मन्यते। चन्द्रग्रहणस्य कारणात् नगरस्य मन्दिरेषु दर्शन–व्यवस्थायां परिवर्तनं भविष्यति।

गोविन्ददेवजी–मन्दिरे ३ मार्चमासे ग्वाल–दर्शनं, सन्ध्या–दर्शनं तथा च शयन–दर्शनं न भविष्यति। तथापि ग्रहणकाले विशेष–दर्शनं प्रवर्तिष्यते, येन श्रद्धालवः निर्धारित–समये दर्शनं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani