संतरागाछी-यशवंतपुर होलिकाविशेषरेलयानम् अथ च पुरी-ऋषिकेश एक्सप्रेसरेलयानस्य च नूतनस्थानकम्
खड़गपुरम्, 02 मार्चमासः (हि.स.)। आगामिनो होलिकोत्सवस्य अवसरे रेलयानयात्रिकाणां अतिरिक्तसंमर्थं दृष्ट्वा दक्षिण पूर्व रेलवेविभागे संतरागाछी-यशवंतपुरयोः मध्ये विशेषयानस्य संचालनस्य महत्त्वपूर्णं निर्णयं कृतवान्। रेलाधिकारिणः विज्ञप्तिपत्रं प्रकाश्
रेलवे द्वारा जारी सूचना


खड़गपुरम्, 02 मार्चमासः (हि.स.)।

आगामिनो होलिकोत्सवस्य अवसरे रेलयानयात्रिकाणां अतिरिक्तसंमर्थं दृष्ट्वा दक्षिण पूर्व रेलवेविभागे संतरागाछी-यशवंतपुरयोः मध्ये विशेषयानस्य संचालनस्य महत्त्वपूर्णं निर्णयं कृतवान्।

रेलाधिकारिणः विज्ञप्तिपत्रं प्रकाश्य अवदन् यत् रेलविभागेन प्रदत्तसूचनानुसारं रेलयानसंख्या 06234 संतरागाछी-यशवंतपुर होली-विशेषयानम् आगामि त्रितीय-मार्च-दिने संतरागाछी-स्थानकात् अपराह्णे 14:45 वादने प्रस्थितुं निर्धारितम् अस्ति। एतत् रेलयानं दीर्घां यात्रां कृत्वा तृतीय-दिने प्रातःकाले चतुर्वादने यशवंतपुर-स्थानकं प्राप्स्यति।

अस्य रेलयानस्य प्रमुखः विरामः बालेश्वर-स्थानके निश्चितः अस्ति, येन ओडिशा-पश्चिमबंगप्रदेशयोः यात्रिकाणां विशेषलाभः भविष्यति।

अन्यच्च, सोमवासरे सायंकाले दक्षिण पूर्व रेलवे यात्रिकसुविधार्थम् अपरं महत्त्वपूर्णं निर्णयं विज्ञप्त्या ज्ञापितवान्। रेलविभागेन सूचितं यत् राखा माइन्स-स्थानके पुरी-योग नगरी ऋषिकेश-पुरी एक्सप्रेस इत्यस्य अस्थायीविरामः प्रदीयते।

एषा सेवा चतुर्थ-मार्च-दिनात् आरभ्य प्रवर्तिष्यते। अस्याः व्यवस्थायाः अन्तर्गतं रेलयानसंख्या 18477 (पुरीतः ऋषिकेशं प्रति) प्रातः 04:50 वादने आगमिष्यति तथा 04:51 वादने प्रस्थितुं निश्चितम् अस्ति। पुनरागमने रेलयानसंख्या 18478 (ऋषिकेशतः पुरीं प्रति) सायं 18:48 वादने आगमिष्यति तथा 18:49 वादने प्रस्थितुं निश्चितम् अस्ति।

रेलाधिकारिणां कथनानुसारम् अयं विरामः अद्यतनतया प्रायोगिकाधारेण प्रदत्तः अस्ति तथा आगामी-आदेशपर्यन्तं प्रवर्तिष्यते।

---------------

हिन्दुस्थान समाचार