Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 20 मार्चमासः (हि.स.)।
आसन्न असम विधानसभा निर्वाचनस्य सन्दर्भे शुक्रवासरे राज्यस्य ३५ जिल्लासु कुलं १०९ अभ्यर्थिनः स्वीयानि नामांकनपत्राणि प्रस्तुतवन्तः। राज्यस्य सूचना एवं प्रसारण विभागेन प्रदत्तायाः आधिकारिकजानकार्यानुसारं अस्मिन् काले कुलं २०९ नामांकनपत्राणि समर्पितानि।
अद्यावधि निर्वाचनप्रक्रियायां कुलं ११६ अभ्यर्थिनः २१९ नामांकनपत्राणि प्रस्तुतवन्तः, यत् राज्ये निर्वाचनगतिविधीनां तीव्रतां सूचयति।
अद्य नामांकनपत्रं प्रस्तुतवन्तेषु असमस्य मुख्यमन्त्री डॉ हिमंत बिस्व सरमा, शिक्षामन्त्री डॉ रनोज पेगू, स्वास्थ्यमन्त्री अशोक सिंघलो, जलसंसाधनमन्त्री पीयूष हजारिका, वित्तमन्त्री अजंता नेओग इत्यादयः प्रमुखाः सम्मिलिताः।
निर्वाचनप्रक्रियायाः अन्तर्गतं नामांकनप्रस्तुतये अन्तिमतिथिः २३ मार्च २०२६ इति निर्धारिता अस्ति।
हिन्दुस्थान समाचार