मुख्यमंत्री सामूहिक विवाह योजनायां 156 युगलानि जीवनस्य नूतनयात्रायाम्
कानपुरम्, 20 मार्चमासः (हि.स.)।मुख्यमन्त्री सामूहिकविवाहयोजनायाः अन्तर्गतं शुक्रवासरे चन्द्रशेखर आजाद कृषि एवं प्रौद्योगिकी विश्वविद्यालय परिसरस्थिते स्टेडियममैदाने १५६ युग्मानां विवाहः सामाजिकधार्मिकरीतिरिवाजानुसारं सम्पन्नः। अस्मिन् आयोजनें जनप्र
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 20 मार्चमासः (हि.स.)।मुख्यमन्त्री सामूहिकविवाहयोजनायाः अन्तर्गतं शुक्रवासरे चन्द्रशेखर आजाद कृषि एवं प्रौद्योगिकी विश्वविद्यालय परिसरस्थिते स्टेडियममैदाने १५६ युग्मानां विवाहः सामाजिकधार्मिकरीतिरिवाजानुसारं सम्पन्नः। अस्मिन् आयोजनें जनप्रतिनिधयः, अधिकारीणः, परिजनाश्च बहुसंख्यया उपस्थिताः आसन्, सम्पूर्णः परिसरः पारम्परिकोल्लासेन सह सुयोजितस्य आयोजनस्य उदाहरणं जातः।

समाजकल्याणविभागेन सञ्चालितायाः योजनायाः अन्तर्गतं ऑनलाइन प्राप्तानां आवेदनानां तथा भौतिकसत्यापनस्य अनन्तरं पात्रलाभार्थिनः कार्यक्रमे सम्मिलिताः। अस्मिन् आयोजनें अनुसूचितजातिः, अन्यपिछडावर्गः, सामान्यवर्गः तथा अल्पसंख्यकवर्गस्य दरिद्रपरिवाराणां युग्मानां विवाहः सम्पन्नः। समग्रेषु १५६ युग्मेषु अनुसूचितजातीयाः ११७, अन्यपिछडावर्गीयाः ३१, सामान्यवर्गीयाः २ तथा अल्पसंख्यकवर्गीयाः ६ युग्मानि सम्मिलितानि आसन्।

विकासखण्डवाराङ्केषु चौबेपुरतः अधिकतमाः ४६, शिवराजपुरतः ३५, नगरनिगमक्षेत्रतः ३०, बिल्हौरतः २१, सरसौलतः १९, भीतरगांवतः ४ तथा नगरपालिका शिवराजपुरतः १ युग्मस्य विवाहः अभवत्।

समारोहे विधायक कल्याणपुर नीलिमा कटियारो, विधायक घाटमपुर सरोज कुरीलः तथा जिला पंचायत अध्यक्ष स्वप्निल वरुणः उपस्थिताः आसन्। जिला प्रशासनस्य पक्षतः जिलाधिकारी जितेन्द्र प्रताप सिंह, मुख्य विकास अधिकारी दीक्षा जैन, अपर जिलाधिकारी नगर राजेश कुमार, संयुक्त मजिस्ट्रेट सदर अनुभव सिंह सहित अन्ये जिला स्तरीय अधिकारी तथा सर्वे खण्ड विकास अधिकारी उपस्थिताः आसन्।

कार्यक्रमे सर्वेषां युग्मानां बायोमेट्रिक तथा ऐप माध्यमेन सत्यापनं कृतम्। विवाहाः स्थानीयपरम्परानुसारं विधिविधानपूर्वकं सम्पन्नाः। नवविवाहितयुग्मानां तेषां परिजनानां च कृते नाश्तस्य, सूक्ष्मजलपानस्य, भोजनस्य, रंगोली तथा सांस्कृतिककार्यक्रमाणां समुचितव्यवस्था कृता। कार्यक्रमस्य अन्ते सर्वेभ्यः युग्मेभ्यः उपहारसामग्री वितरिता तथा आयोजनं शान्तिपूर्वकं सुव्यवस्थितरूपेण सम्पन्नम्।

अधिकारिणः अभिभावकरूपेण दायित्वं निर्वहन्तः कन्यादानम् अकुर्वन्। मुख्यमन्त्री सामूहिकविवाहयोजनाकाले यासां कन्यानां अभिभावकाः उपस्थिताः न आसन्, तासां कृते प्रशासनिक अधिकारी अग्रे आगत्य अभिभावकरूपेण कन्यादानं कृतवन्तः। मुख्य पशु चिकित्साधिकारी डॉ अनुराग सिंहेन गोपालनगरनिवासिन्याः नीलम नाम्न्याः कन्यादानं कृतम्, यस्याः विवाहः मनीष साहू इत्यनेन सह अभवत्। तथा परियोजना अधिकारी डीआरडीए आलोक कुमार सिंहेन भारती नाम्न्याः कन्यादानं कृतम्, यस्याः विवाहः चौबेपुरनिवासिना धीरजेन सह सम्पन्नः।

हिन्दुस्थान समाचार