मुख्यमंत्री डॉ. यादवो महान वीरांगनायाः रानी अवंतीबाई लोधिनो बलिदान दिवसे श्रद्धांजलिः अर्पितः
भाेपालम्, 20 मार्चमासः (हि.स.)। अदम्यसाहसस्य प्रतिमूर्तिः भारतीयस्वातन्त्र्यसंग्रामसेनानी वीराङ्गना रानी अवन्तीबाई लोधी इत्यस्याः अद्य शुक्रवासरे पुण्यतिथिः अस्ति। अवन्तीबायाः बलिदानदिवसे मुख्यमन्त्री डाॅ. मोहन यादवः तस्याः योगदानं स्मृत्वा विनम
मुख्यमंत्री डॉ. यादव ने महान वीरांगना रानी अवंतीबाई लोधी के बलिदान दिवस पर श्रद्धांजलि अर्पित की


भाेपालम्, 20 मार्चमासः (हि.स.)।

अदम्यसाहसस्य प्रतिमूर्तिः भारतीयस्वातन्त्र्यसंग्रामसेनानी वीराङ्गना रानी अवन्तीबाई लोधी इत्यस्याः अद्य शुक्रवासरे पुण्यतिथिः अस्ति।

अवन्तीबायाः बलिदानदिवसे मुख्यमन्त्री डाॅ. मोहन यादवः तस्याः योगदानं स्मृत्वा विनम्रां श्रद्धांजलिं अर्पितवान्।

मुख्यमन्त्री डाॅ. यादवः सामाजिकमाध्यमे एक्स् इति माध्यमे लेखं प्रकाशितवान्—

“नारीशक्तेः सुशासनस्य स्वाभिमानस्य च अदम्यसाहसस्य प्रतिमूर्तिः महान् वीराङ्गना रानी अवन्तीबाई लोधी इत्यस्याः बलिदानदिवसे तस्यै विनम्रां श्रद्धांजलिं समर्पयामि। मातृभूमेः सम्मानाय तस्याः त्यागः पराक्रमश्च अद्यापि अस्मान् अन्यायस्य विरुद्धं निर्भीकतया स्थितुं राष्ट्रहितं च सर्वोपरि स्थापयितुं प्रेरयति।”

उल्लेखनीयम् अस्ति यत् १८५७ तमे वर्षे क्रान्तेः महानायिका रानी अवन्तीबाई लोधी इत्यस्याः बलिदानदिवसः प्रतिवर्षं मार्चमासस्य विंशतितमे दिने आचर्यते।

सा १८५८ तमे वर्षे मार्चमासस्य विंशतितमे दिने ब्रिटिशसेनायाः विरुद्धं युद्धं कुर्वन्ती मातृभूमेः रक्षणार्थं मण्डलजनपदस्य देवहरीगढे स्वखड्गेन आत्मबलिदानं कृतवती।

रामगढस्य रानी दास्यं अस्वीकार्य ‘वीराङ्गना’ इति रूपेण शहादतं प्राप्तवती।

---------------

हिन्दुस्थान समाचार