चैत्र नवरात्रस्य द्वितीय दिनम् अद्य, मुख्यमंत्रिणा डॉ. यादवेन माँ ब्रह्मचारिण्यै नमनं कृतम्
भाेपालम्, 20 मार्चमासः (हि.स.)। चैत्रनवरात्रे अद्य शुक्रवासरे द्वितीयः दिवसः अस्ति। समग्रे प्रदेशे आदिशक्तेः उपासनायाः क्रमः निरन्तरं प्रवर्तते। चैत्रनवरात्रस्य द्वितीयः दिवसः देवीदुर्गायाः द्वितीयस्वरूपायै मातृ ब्रह्मचारिण्यै समर्पितः अस्ति, या
मुख्यमंत्री डॉ. यादव


भाेपालम्, 20 मार्चमासः (हि.स.)।

चैत्रनवरात्रे अद्य शुक्रवासरे द्वितीयः दिवसः अस्ति। समग्रे प्रदेशे आदिशक्तेः उपासनायाः क्रमः निरन्तरं प्रवर्तते।

चैत्रनवरात्रस्य द्वितीयः दिवसः देवीदुर्गायाः द्वितीयस्वरूपायै मातृ ब्रह्मचारिण्यै समर्पितः अस्ति, या ज्ञानतपस्यावैराग्यस्य प्रतीका अस्ति।

भक्तानां कृते अतीव प्रातःकाले एव मन्दिराणां पटाः उद्घाटिताः। देवीमन्दिरेषु श्रद्धालूनां जनसागरः उमड़ितः अस्ति। शक्तिस्थलेषु साधनायाः क्रमः प्रवर्तते।

मुख्यमन्त्री डाॅ. यादवः चैत्रनवरात्रस्य द्वितीयदिवसे मातरं ब्रह्मचारिणीं प्रणम्य अभिनन्दनम् अकरोत्। तेन सामाजिकमाध्यमे एक्स् इति माध्यमे लेखः प्रकाशितः—

“या देवी सर्वभूतेषु ब्रह्मचारिणी रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।”

अहं भगवत्याः द्वितीयस्वरूपायाः मातुः ब्रह्मचारिण्याः चरणयोः कोटिशः नमस्कारं करोमि। मातुः कृपया प्रत्येकस्य हृदये श्रद्धाशक्तिसकारात्मकतायाः सञ्चारः भवतु, सर्वेषां जीवने सफलतायाः नूतनद्वाराणि उद्घाट्यन्ताम्, तथा च प्रत्येकं गृहं सुखसमृद्धिमङ्गलमयऊर्जया आलोकितं भवतु, इति मम प्रार्थना।

---------------

हिन्दुस्थान समाचार