Enter your Email Address to subscribe to our newsletters


मुंबई ,20 मार्चमासः ( हि . स,.) । ठाणेनगरस्य कलवा क्षेत्रे स्थिते ठाणे मनपा-सम्बद्धे छत्रपति शिवाजी महाराज हॉस्पिटल इत्यस्य छात्रावासे स्थानीयचिकित्सकानां विद्यार्थिनां च निवासस्थाने मलिनता तथा विविधसमस्याभिः चिकित्सकाः स्वयमेव रोगिणः भवितुं शक्नुवन्ति इति संकेताः दृश्यन्ते। अद्य ठाणे विधायकः संजय केलकर तत्र गत्वा निरीक्षणं कृत्वा अधिकारिणः तीव्रतया समालोचितवान्। अस्मिन् प्रसङ्गे सम्बन्धिताः अधिकारीणः द्विसप्ताहाभ्यन्तरे आवश्यकसुविधाः प्रदातुं समस्याः च निराकर्तुं स्वीकृतवन्तः।
ठाणेनगरविधायकः संजय केलकर अद्य अवदत् यत् सः स्थानीयचिकित्सकानां तथा वैद्यकविद्यालयस्य विद्यार्थिनां अभ्यर्थनानां आधारेण छत्रपति शिवाजी महाराज चिकित्सालयस्य छात्रावासस्य निरीक्षणं कृतवान्। छात्रावासे मलिनता, दूषितपेयजलम् तथा सर्वत्र दुर्गन्धस्य कारणेन निवासीचिकित्सकाः रोगग्रस्ताः भवितुं समीपे सन्ति। अपि च शयनार्थं पर्याप्ताः शय्याः अपि न सन्ति। निवासीचिकित्सकैः पूर्वमेव एतासां समस्याः सूचिताः आसन्, किन्तु तेषां निवेदनानन्तरमपि समाधानं न अभवत्।
अस्मिन् विषये विधायकः केलकर डीन् स्वप्नाली कदम इत्येन सह मिलित्वा विस्तरेण चर्चा कृतवान्। तदनन्तरं अधिकारीणः द्विसप्ताहाभ्यन्तरे छात्रावासे आवश्यकसुविधाः प्रदातुं सम्मतिं दत्तवन्तः। अस्मिन् अवसरे डॉ योगेश शर्मा, डॉ अथर्व शिंदे, किशोर सोंगड़ा, कृष्णा भुजबल, विशाल वाघ इत्यादयः अपि उपस्थिताः आसन्।
माध्यमैः सह वार्तालापे विधायकः केलकर अवदत् यत् अत्र स्थिताः ठेकेदाराः स्वान् मनपा-सम्बद्धस्य जामातृवत् आचरन्ति। तथैव मनपा प्रशासनम् अपि अत्र प्रचलितस्य भ्रष्टाचारस्य विषये किञ्चित् अपि कार्यं न करोति। सः अपि उक्तवान् यत् केवलं सीसीटीवी यन्त्राणि स्थापयित्वा सुरक्षा-सुविधानां समस्या न निवर्तिष्यते, अपि तु कस्यापि घटनायाः पूर्वमेव सावधानता अपेक्षिता। सः आयुक्तात् आग्रहं कृतवान् यत् एतासां समस्याः शीघ्रं परिशील्य सम्बन्धितेषु व्यक्तिषु दृढकार्यवाही क्रियते।
---------------
हिन्दुस्थान समाचार