सांसदो गणितवती सर्वकारस्य उपलब्धीः
सिद्धार्थनगरम्, 20 मार्चमासः (हि.स.)। उत्तरप्रदेश सर्वकारेण स्वस्य नववर्षीयकार्यकाले विकासः सुशासनं जनकल्याणं च सर्वोच्चप्राथमिकतया स्थापितम्। अत्र मार्गनिर्माणे, विद्युत्सुविधायाम्, स्वास्थ्यसेवायाम् तथा विधिव्यवस्थायां उल्लेखनीया प्रगति जाता।
सिद्धार्थनगर/कार्यक्रम को सम्बोधित करते जगदम्बिकापाल


सिद्धार्थनगरम्, 20 मार्चमासः (हि.स.)।

उत्तरप्रदेश सर्वकारेण स्वस्य नववर्षीयकार्यकाले विकासः सुशासनं जनकल्याणं च सर्वोच्चप्राथमिकतया स्थापितम्। अत्र मार्गनिर्माणे, विद्युत्सुविधायाम्, स्वास्थ्यसेवायाम् तथा विधिव्यवस्थायां उल्लेखनीया प्रगति जाता।

उक्तां जानकारीं सांसदः जगदम्बिका पाल इटवा ब्लॉक परिसरस्थिते कार्यक्रमे, यत्र प्रदेशसरकारस्य नववर्षपूर्तिः आसीत्, प्रस्तुतवान्। मुख्यातिथिरूपेण सः सरकारस्य उपलब्धयः गणयन् उक्तवान् यत् उत्तरप्रदेशः विकासक्षेत्रे अग्रणी प्रदेशः अभवत्। अयं प्रदेशः एक्सप्रेसवे तथा विमानस्थानकानां प्रदेशः इति कथ्यते। अत्र भयमुक्तं वातावरणम् अस्ति। अधुना एषः उत्तमप्रदेशः जातः। रोजगारसृजनं कौशलविकासकार्यक्रमाश्च प्राथमिकतया स्वीकृताः। अस्मिन् प्रदेशे अत्यधिकं निवेशः अभवत्।

पूर्वमन्त्री डॉ सतीश चन्द्र द्विवेदी अस्मिन् अवसरे सरकारस्य विभिन्न योजनानां विषये विस्तरेण अवदत्। कार्यक्रमे भाजपा जिलाध्यक्षः दीपक मौर्य, जिलाधिकारी शिव शरणप्पा, मुख्य विकास अधिकारी बलराम सिंह आदयः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार