Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 20 मार्चमासः (हि.स.)।
माता विंध्यवासिनी धाम विंध्याचले नवरात्रमेलायाः अवसरः उपलक्ष्य उत्तरप्रदेश विंध्यधाम तीर्थविकासपरिषदः तत्वावधाने आयोजितस्य विंध्य महोत्सवस्य सांस्कृतिककार्यक्रमाणां शुभारम्भः नगरविधायकः रत्नाकर मिश्र दीपप्रज्ज्वलनं कृत्वा तथा देवीचित्रे माल्यार्पणं कृत्वा अकरोत्।
अस्मिन् समये विधायकः तथा जिलाधिकारी मंचे प्रस्तुति दत्तवन्तः कलाकारान् देवीचित्रेण, अंगवस्त्रेण प्रशस्तिपत्रेण च सम्मानितवन्तौ। कार्यक्रमस्य आरम्भः कथकनृत्येन अभवत्, यस्मिन् स्वर्गीय पण्डित महेश्वरपति त्रिपाठेः शिष्यः मनीष शर्मा स्वीयया टीमसहितः भगवान् रामस्य अयोध्यागमनस्य स्वागतदृश्यं प्रस्तुत्य दर्शकान् मन्त्रमुग्धान् अकरोत्।
ततः अनन्तरं वाराणस्याः हरिप्रीत कौर भजनं प्रस्तुतवती। तथा सूचना एवं जनसम्पर्कविभागस्य पंजीकृतः कलाकारः शिवलाल गुप्त उत्तरप्रदेशसरकारस्य नववर्षपूर्तेः आधारिता गीतानां माध्यमेन योजनानां सूचनां दत्तवान्। कार्यक्रमे स्थानीयकलाकाराः रानी सिंह, सूफिया बेगम, कल्पना गुप्ता, रागिनी चन्द्रा, आनन्द कुमार च देवीगीतैः लोकगायनेन च वातावरणं रमणीयं कृतवन्तः। सूरज कुमार कौशल कुमार सैनी च अपि भजनप्रस्तुतेन दर्शकानां मनोरञ्जनं कृतवन्तौ।
कार्यक्रमस्य संचालनं संजय श्रीवास्तवेन कृतम्। अस्मिन् अवसरे अपर जिलाधिकारी अजय कुमार सिंह, नगर मजिस्ट्रेट अविनाश सिंह, जिला सूचना अधिकारी ओमप्रकाश उपाध्याय, उपजिल्लाधिकारी संजीव यादवः इत्येतैः सहिताः अन्ये अधिकारीणः अपि उपस्थिताः आसन्। अन्ते डिप्टी कलेक्टर संजीव यादव सर्वेषां अतिथीनां कलाकारानां आगन्तुकानां च प्रति आभारं व्यक्तवान्।
---------------
हिन्दुस्थान समाचार